प्रेमवतीकृता श्रीहरिस्तुतिः PDF संस्कृत
Download PDF of Premavatikrritashriharistutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
प्रेमवतीकृता श्रीहरिस्तुतिः संस्कृत Lyrics
|| प्रेमवतीकृता श्रीहरिस्तुतिः ||
निगमागमगीतदिव्यकीर्ते करुणाद्याखिलसद्गुणैकधामन् ।
धृतमानुषनाटने कृपालो त्वयि नित्यं मनसो गतिर्ममास्तु ॥ १॥
वरवक्त्रवितर्जिताब्जशोभे शुभनासापरिभूतकीरचञ्चौ ।
सहचन्द्रकपुण्ड्रशोभिभाले त्वयि नित्यं मनसो गतिर्ममास्तु ॥ २॥
अमितात्महितार्थमत्र नाथ करुणाविष्कृतनैजदिव्यमूर्ते ।
अवितर्क्यमनोहरस्वरूपे त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ३॥
निजभक्तमदादिशत्रुहारिन् निजभक्ताखिलकष्टनाशकारिन् ।
निगमागमशास्त्रसारवक्तस्त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ४॥
शरणागतरक्ष यत्कथायाः श्रवणं च स्मरणं यदीयमूर्तेः ।
प्रपुनाति जनान् द्रुतं सुपापास्त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ५॥
हरिकृष्ण हरे प्रभो परात्मन्निति नामानि जपञ्जनोऽपि नीचः ।
वरवर्णतमो भवेच्च यस्य त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ६॥
अपि वर्णिवरात्मनाथ सर्वगुणधामन् पुरुषोत्तम स्वतन्त्र ।
वयुनादिवरैश्वराम्बुराशे त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ७॥
न हि यस्य परः कदापि कश्चित् प्रभवेत् कः कुत एव तेन तुल्यः ।
इति कल्पनशक्त्यमेयशक्ते त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे ।
एकपञ्चाशत्तमे तरङ्गे प्रेमवतीकृता श्रीहरिस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowप्रेमवतीकृता श्रीहरिस्तुतिः
READ
प्रेमवतीकृता श्रीहरिस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
