मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम् PDF संस्कृत
Download PDF of Pundarikakshastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम् संस्कृत Lyrics
|| मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम् ||
वराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १॥
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २॥
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३॥
सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४॥
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५॥
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६॥
नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७॥
इति मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्
READ
मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
