श्री राधापटल स्तोत्रम् PDF संस्कृत
Download PDF of Radhapatal Astotram Sanskrit
Shri Radha ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री राधापटल स्तोत्रम् संस्कृत Lyrics
|| श्री राधापटल स्तोत्रम् ||
ईश्वर उवाच ॥
प्रणवं पूर्वमुद्धृत्य हृन्मन्त्रं च ततः पठेत् ।
रमार्णेन युतो राधाकान्तः प्रोच्यस्ततः परम् ॥ १॥
शरणं पदमुच्चार्य ममेति पदमुच्चरेत् ।
मनुरेष तु श्रीराधाकृष्णयोः परमाद्भुतः ॥ २॥
जपमात्रेण जीवानां दृष्टादृष्टफलप्रदः ।
अस्मात्परतरो मन्त्रो नास्ति नास्ति वरानने ॥ ३॥
यस्मिञ्जप्ते तयोरेव स्वीयबुद्धिस्तु साधके ।
जायते कृतकृत्योसौ तथा भवति शाम्भवि ॥ ४॥
ध्रुवमुच्चार्य हृन्मन्त्रं वदेदथ रमार्णकम् ।
पावकं शेषसंयुक्तं धनेशं विद्ययान्वितम् ॥ ५॥
कामगं विष्णुशय्याढ्यं नभोरे चकया युतम् ।
कुबेरं केशवासक्तं बालाक्षीं कण्ठसङ्गताम् ॥ ६॥
चक्रिणं कामरूपाङ्कं जनकोत्तममेव च ।
वातारूढं समुच्चार्य षडाननमथानिलम् ॥ ७॥
बालेन्दुनाधिष्ठयन्तु लोहितं वातगं तथा ।
ह्लादिनीन्तु समुच्चार्य जपेदेनं महामनुम् ॥ ८॥
देवजाप्यं स्वेष्टदत्तं हैतीयजनगोचरम् ।
श्रीराधाकृष्णयोरेव हवात्संयोगदं परम् ॥ ९॥
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधाधरसुधापानमत्ताय च नमो नमः ॥ १०॥
मालामन्त्रं प्रवक्ष्यामि सावधानावधारय ।
एकविंशाक्षरोह्येष दृष्टा दृष्टफलप्रदः ॥ ११॥
अस्थिसञ्ज्ञश्च रुधिरारूढस्तु सुमुखाङ्कुरः ।
रोचिष्मान्मुखवृत्तस्थो धनेशः शेषसंयुतः ॥ १२॥
वारिदः केशवारूढो लम्पटश्च पिनाकिना ।
युतः श्रीकण्ठसरूढो भरद्वाजो निवृत्तियुक् ॥ १३॥
चक्रोयुक्तश्चक्रोधिन्या वामदृक्सङ्गतस्तथा ।
सदाशिवो निवृत्तस्थो भुजङ्गेशी च सूक्ष्मगा ॥ १४॥
वज्रमुष्टिश्चन्द्रसंस्थो वृषघ्नो मात्रिकादिगः ।
पूर्वार्द्धमेतन्निर्णीतं परार्द्धं प्रोच्यतेधुना ॥ १५॥
हृदा रोचिष्मताशाकं नृसिंहास्त्रोरसि स्थितः ।
खड्गीशो देवमातृस्थोनुस्वारेण विभाषितः ॥ १६॥
दाता शेषासनस्थश्च वारुणो वातसङ्गतः ।
नरःश्रीकण्ठसंसक्तः समुच्चार्यो मनीषणा ॥ १७॥
शङ्कुकर्णः पावकेन सङ्गतो मायया पुनः ।
सुरेशः केशवारूढो शौरी श्रीकण्ठसङ्गतः ॥ १८॥
चञ्चलो व्योमरूपस्थो ह्लादिनीरुचिरेण च ।
केशवाङ्कगता चैव परार्द्धोयमुदाहृतः ॥ १९॥
इति श्रीराधापटलं समाप्तिमगात् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री राधापटल स्तोत्रम्

READ
श्री राधापटल स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
