श्रीराघवेन्द्रबन्धमोचनकवचम् PDF संस्कृत
Download PDF of Raghavendrabandhamochanakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीराघवेन्द्रबन्धमोचनकवचम् संस्कृत Lyrics
|| श्रीराघवेन्द्रबन्धमोचनकवचम् ||
अथ श्रीराघवेन्द्रार्यकवचं मन्त्रनामजम् ।
कलौ प्रत्यक्षफलदं बह्वायासेन वै विना ॥ १॥
गुरोः पुत्रोऽवधूतोऽहं वक्ष्ये छन्दस्यनुष्टुभिः ।
रां बीजं च नमः शक्ती राघवेन्द्राय कीलकम् ॥ २॥
श्रितजनसुरधेनौ श्रीसुधीन्द्रार्यसूनौ
दुरिततिमिरभानौ दुर्दशायाः कृशानौ ।
विरचितभयहानौ वामहस्तेऽत्र जानौ
मम वसतु यतीन्द्रे मानसं राघवेन्द्रे ॥ ३॥
ॐ श्रीं श्रीराघवेन्द्रार्यगुरुराजः शिरोऽवतु ।
ॐ रां राममहावीराराधकोऽवतु सोऽलिकम् ॥ ४॥
ॐ घं घनतरापत्तिहरणो रक्षतु भ्रुवौ ।
ॐ वें वेङ्कटशैलेशपूजकोऽवतु चाक्षिणे ॥ ५॥
ॐ द्रां द्रावयितारातिः कर्णाववतु सन्ततम् ।
ॐ यं यतीश्वरो नासां ॐ नं नम्यः कपोलकौ ॥ ६॥
ॐ मं मान्नोऽवताज्जिह्वां ॐ मं मस्करभृद्गलम् ।
ॐ नं नारायणप्रेष्ठः स्कन्धदेशं सदाऽवतु ॥ ७॥
ॐ यं यक्षादिभयहा वक्षः पातु निरन्तरम् ।
ॐ द्रां द्राक् छिन्नसर्वारिबन्धनोऽव्याद्भुजौ सदा ॥ ८॥
ॐ वें वेपितशत्रुश्च हस्तौ रक्षतु सर्वदा ।
ॐ घं घोरविषबाधापरिहर्ताऽवतूदरम् ॥ ९॥
ॐ रां राजादि निर्बन्धछेदकृत्पातु पार्श्वयोः ।
ॐ श्रीं श्रीहनुमद्भक्तः कटिं मध्यं च रक्षतु ॥ १०॥
ॐ श्रीं श्रीलजनस्तुत्यो गुह्यं रक्षतु शाश्वतम् ।
ॐ रां राष्ट्रक्षेमकरो ऊरू रक्षतु जानुनी ॥ ११॥
ॐ घं घनाङ्गो जङ्घे च ॐ वें वेदान्तवेदकः ।
ॐ गुल्मौ रक्षतु पादौ तु ॐ द्रां द्रुतगतिप्रदः ॥ १२॥
ॐ यं यमनिधिः पृष्ठं ॐ नं चित्तं नताखिलः ।
ॐ मं मातृदोषघ्नः सर्वाङ्गान्यपि रक्षतु ॥ १३॥
मालामन्त्रस्तोत्रं –
ॐ नमः श्रीराघवेन्द्राय नमो भगवते
रां राघवभक्ताय, घं घनानन्दाय, वें वेतालादि भयहारिणे,
द्रां द्राक् प्रपन्नाय, यं यक्षरक्षोविनाशाय,
नं नामसङ्कीर्तनतुष्टाय, मं महामोदप्रदाय स्वाहा ।
स्मरणमात्रसन्निहितायऽमित्रान्मित्रीकुरु मित्रीकुरु,
वौषढाकृष्टाष्टैश्वर्यचर्याय
परमन्त्र-तन्त्र-पाशादि बन्धं छिन्धि छिन्धि ।
हुँ भक्तवज्रकवचरूपाय,
परकृतशस्त्रास्त्रविश्वचेष्टकं भञ्जय भञ्जय ।
वषट् प्रकाशरूपाय, मम सुदैवं प्रकाशय प्रकाशय ।
फट् दण्डधराय, शृङ्खलाबन्धनं स्फोटय स्फोटय ।
भेदय, भेदय, मां रक्ष, मां रक्ष, सर्वविपदः शमय, शमय
सर्वसम्पदः सम्पादय सम्पादय हुं फट् स्वाहा ओम् ॥ १४॥
ॐ एतच्छ्रीराघवेन्द्रार्यगुरुराजः कृपानिधिः ।
मालामन्त्रात्मकं स्तोत्रं सपादद्विशतार्णकम् ॥ १५॥
मन्त्रराजात्मकं बन्धमोचकं कवचं शुभम् ।
शत्रुकृत्यादिशमनं त्रिवारं पठतां दिने ॥ १६॥
यथायोग्यं सप्तकं वा द्विसप्तकमथाऽपि वा ।
त्रिसप्तकं मण्डलं वा त्रिपक्षं वा विचक्षणः ॥ १७॥
ताम्रपत्रे चन्दनेन परिलिप्तेऽष्टकोणकम् ।
पद्मं लिखित्वा तत्पत्रे मन्त्रमष्टाक्षरं गुरोः ॥ १८॥
अनुलोमाल्लिखित्वाऽथ तद्वहिश्च विलोमतः ।
लिखित्वा कर्णिकायां तु रां बीजं विलिखेत् गुरोः ॥ १९॥
विलिखेत् रां चतुर्दिक्षु विलिखेन्मं विदिक्षु च ।
आवाह्य पूजयेत् तत्र राघवेन्द्रगुरुं तथा ॥ २०॥
हनूमन्तं राघवं च प्रज्वाल्य घृतदीपकम् ।
वर्तिकाष्टकसंयुक्तं गन्धपुष्पाक्षतादिभिः ॥ २१॥
सम्पूज्य फलपानीयैर्नित्यमष्टोत्तरं शतम् ।
पश्चिमाभिमुखो जप्त्वा मुच्यते सर्वबन्धनात् ॥ २२॥
अप्पण्णार्यस्तवं पूर्वं ततश्चाष्टाक्षरं मनुम् ।
अष्टोत्तरं जपित्वाऽथ समन्त्रकवचं जपेत् ॥ २३॥
प्रदोषेह्यर्थरात्रे वा शृङ्खलादिकबन्धतः ।
मुच्यते नात्र सन्देहो गुरुराजप्रसादतः ॥ २४॥
प्रजपेत् पूर्ववन्नित्यं मालामन्त्रार्णसङ्ख्यया ।
महानिर्बन्धतो मुच्येदवधूतवचो यथा ॥ २५॥
सकृद्वा यः पठेन्नित्यं प्रदोषे गुरुसन्निधौ ।
मार्गेऽ।रण्ये द्विषन्मध्ये चोरसर्पादि बन्धने ॥ २६॥
प्रभाते वा निशायां वा मुच्यते सर्वतो भयात् ।
सन्ततिं सम्पदं सौख्यं लभते तत्प्रसादतः ॥ २७॥
श्रीराघवेन्द्रं धृतदृष्टदण्डं
काषायवस्त्रं कमनीयवेषम् ।
भजेत् सदा भक्त भयौघनाश-
बद्धादरं रामकपीशभक्तम् ॥ २८॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे
श्रीराघवेन्द्रबन्धमोचनकवचं नाम षष्ठपटलः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवेन्द्रबन्धमोचनकवचम्
READ
श्रीराघवेन्द्रबन्धमोचनकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
