श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम् PDF संस्कृत
Download PDF of Raghavendradaridryamochanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम् संस्कृत Lyrics
|| श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम् ||
श्रितानां पादं ते सकलविधया शोकहरणः
त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥
रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता
कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥
घनाघो वा दीनो वावयवविकलो वाक्षविकलः
प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३॥
वदान्यात् त्वद्भूमौ दिवि सुरभिकल्पद्रुमदृषदां
लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४॥
द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय
त्वदन्यो दाता चेद्भवति कथमायामि वाद मे ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५॥
यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान्
व्रजन् देशं देशं श्रमजनिरभूवं न च धनी ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६॥
न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे-
त्यमुं मा दारिद्र्यव्यसनपरिपिण्डीकृतहृदयम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७॥
महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना
जरत्काकावस्थां भृशमनुभवामीश किमिदम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८॥
गुरोः पुत्रः सुकविरवधूतः स्तवमहं
चकारैकश्वासात सरलमिममादृत्य पठताम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
दारिद्र्यमोचनस्तोत्रं नाम नवमोऽध्यायः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम्
READ
श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS