श्रीराघवेन्द्रदुःखहरणस्तोत्रम् PDF संस्कृत
Download PDF of Raghavendraduhkhaharanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीराघवेन्द्रदुःखहरणस्तोत्रम् संस्कृत Lyrics
|| श्रीराघवेन्द्रदुःखहरणस्तोत्रम् ||
श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥
राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥
घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥
वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥
द्रागिष्टं दास्यसि भक्तेभ्यस्त्वमिति श्रुत्वा त्वापं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ५॥
यद्यपि दयालुरिति विख्यातस्तर्हि दृक्षं मामुद्धर भोः । यद्यसि दयालुरिति
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ६॥
न ममोद्धर्ता चेत् त्वं भुवि ते दिविजद्रुम इति सुयशः किं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ७॥
मायापाशविबद्धो नाहं जाने विवेकलवमपि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ८॥
कृष्णावधूतविरचितमष्टकमेतत् पठतां सकलं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
दुःखहरणस्तोत्रं नाम तृतीयोऽध्यायः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवेन्द्रदुःखहरणस्तोत्रम्
READ
श्रीराघवेन्द्रदुःखहरणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
