श्रीराघवेन्द्ररक्षाकवचम् PDF संस्कृत
Download PDF of Raghavendrarakshakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीराघवेन्द्ररक्षाकवचम् संस्कृत Lyrics
|| श्रीराघवेन्द्ररक्षाकवचम् ||
अथ श्रीराघवेन्द्रार्यरक्षाकवचमद्भुतम् ।
वक्ष्यामि दंशितो येन क्षेमवान् विजयी भवेत् ॥ १॥
गुरुराजप्रेमपुत्रः तत्प्रसादपुरस्कृतः ।
कृष्णावधूतनामाऽहं तस्य सन्निधिकारकम् ॥ २॥
छन्दः त्रिष्टुप् समाख्यातं देवता गुरुराट् स्मृतः ।
मन्त्रन्यासः प्रकर्तव्यो ध्यानं वक्ष्यामि सद्गुरोः ॥ ३॥
करधृतलगुढं धृताक्षमालं दरविवृतेक्षणमम्बुजासनस्थम् ।
दरचलदधरं गुरुं दधानं वरमभयप्रणतेष्टदं स्मरामि ॥ ४॥
ॐ पूर्वेऽत्र मां रक्षतु राघवेन्द्रो
मां दक्षिणेऽव्याद्घनपापहन्ता ।
अव्यात्प्रतीच्यामभयप्रदाता
पातूत्तरस्यां दिशि शान्तिकर्ता ॥ ५॥
आग्नेयभागेऽवतु दिव्यतेजाः नैऋत्यभागेऽवतु दुष्टहन्ता ।
वायुव्यभागेऽवतु वज्रकायो मामीशभागेऽवतु सिद्धिदाता ॥ ६॥
पायात् शिखां मे श्रितरामपादः
पायात् शिरो मे शशिशीतवृत्तिः ।
भालं ममाव्याद्दुरदृष्टहर्ता
भ्रुवौ ममाव्याद्भवतापहर्ता ॥ ७॥
कूर्चं ममाव्यात् कुलशीलशाली
नेत्रे ममाव्यान्नयनप्रदाता ।
कर्णौ ममाव्याद्बधिरत्वहारी
गण्डौ ममाव्याद्गरदोषहारी ॥ ८॥
ओष्ठाधरौ मेऽवतु कष्टहारी
नासां सदा मेऽवतु नादकारी ।
जिह्वां सदा रक्षतु वाक्प्रदाता
दन्तान् सदा रक्षतु भक्ष्यदाता ॥ ९॥
पायात् सदा मे चिबुकं यतीशः ।
पायात् सदा मे वदनं व्रतीशः ।
कण्ठं नु कण्ठीरवभक्तवर्यः
स्कन्धौ ममाव्याद्धृतपुष्पमालः ॥ १०॥
भुजौ ममाव्यादिह बाहुदाता
करौ ममाव्याद्वरदानशूरः ।
हस्ताङ्गुलीन् मे मनुजापकोऽव्यात्
वक्षो ममाव्याद्घनसंशयच्छित् ॥ ११॥
कुक्षिं ममाव्यादयमामयघ्नः
पार्श्वे ममाव्याद्भवभीतिहर्ता ।
साहाय्यकर्ता मम पातु पृष्ठं
कटिं सदा मे कनकाम्बरोऽव्यात् ॥ १२॥
मेहामयघ्नोऽवतु मे तु गुह्यं
ऊरू सदा मेऽवतु वेगशीलः ।
मौनव्रती मेऽवतु जानुनी च
जङ्घे ममाव्याज्जवनत्वदायी ॥ १३॥
गुल्भौ ममाव्याद्गुणवर्णनीयः
पादौ ममाव्यात्परपीडितारिः ।
यद्यन्ममाङ्गं न मयोक्तमत्र
तत्तत्समस्तं च दयालुरव्यात् ॥ १४॥
पितॄंश्च पत्नींश्च सुतांश्च बन्धून्
पौत्रादिकान्मे सुतवत्सलोऽव्यात् ।
व्याघ्राऽहिभल्लूकवराहदन्ती
लुलायसिंहांश्च सृगाल चोरान् ॥ १५॥
हत्वा च दुष्टान् कृमिवृश्चिकाण्ड-
जातान् ममाव्याद्गुरुराजदण्डः ।
भिन्द्यात्पिशाचासुरयक्षरक्षो
भूतग्रहादीन् गुरुपादरेणुः ॥ १६॥
अग्न्यम्बुशैलाशनिराजशत्रु-
विषादितोऽव्याद्गुरुपादतीर्थम् ।
कुष्ठज्वरार्शःक्षयमुख्यरोगान्
विनाशयित्वाऽवतु मृत्तिका सा ॥ १७॥
धान्यं धनं भूषणवस्त्रगेह-
धैर्यं ममाव्याद्गुरुराघवेन्द्रः ।
राजारिनारीनरवश्यसिद्धिं
मित्रादिकप्रेमकवित्वविद्याः ॥ १८॥
सर्वानुकूल्यं सकलार्थसिद्धिं
दधातु मे सिद्धगणाग्रगण्यः ।
ज्ञानं सदाचारमुदारभावं
चित्तेन्द्रियादीनि च पातु सूज्ञः ॥ १९॥
धर्मानुकूल्यं कृतपुण्यकर्म
विवेकमित्यादि पिता ममाव्यात् ।
सङ्कल्पसिद्धिं मम वाक्यसिद्धिं
जयं च सर्वत्र ददात्वभीष्टः ॥ २०॥
पुरश्च मेऽव्याद्वरदानकारी
पश्चाश्च मेऽव्याद्बलदानकारी ।
ऊर्ध्वं ममाऽव्यात्परितापहारी
अधश्च मेऽव्यात् स्थिवासकारी ॥ २१॥
दिवा प्रभाते निशि च प्रदोषे
मध्यन्दिनेऽव्यान्मम जागरूकः ।
सर्वेषु कार्येषु च सर्वदा मां
पायाद्गुरुर्मत्कृतसन्निधानः ॥ २२॥
इदं श्रीराघवेनद्रार्यकवचं रक्षकः परम् ।
त्रिकालं वा द्विकालं वा सकृद्वा पठितां दिनम् ॥ २३॥
कुष्ठादि रोगशमनं सर्वपीडाहरं शुभम् ।
कविताशास्त्रविज्ञानप्रदं वादिजयप्रदम् ॥ २४॥
सर्वसाध्वसरक्षार्थं ब्रह्मास्त्रसदृशं कलौ ॥ २५॥
वन्दे श्रीगुरुराजमुग्रतपसं सर्वारिदर्पापहं
देवेन्द्राभसमृद्धसम्पदममुं भक्तिप्रियं सद्गुरुम् ।
भक्तत्राणनबद्धकङ्कणमसद्भाधाहरं स्वर्गवी-
स्वारत्नस्वरगात्युदारहृदयं तं रिष्टतातिं प्रभुम् ॥ २६॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे
श्रीराघवेन्द्ररक्षाकवचं नाम पञ्चमपटलः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराघवेन्द्ररक्षाकवचम्
READ
श्रीराघवेन्द्ररक्षाकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
