श्रीरामकबीराचार्याष्टकम् PDF संस्कृत
Download PDF of Ramakabiracharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीरामकबीराचार्याष्टकम् संस्कृत Lyrics
|| श्रीरामकबीराचार्याष्टकम् ||
रामानन्दयतीन्द्रस्य शिष्यं धर्मप्रवर्धकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
आनन्दभाष्यसिद्धान्तवेदिनं जितवादिनम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
महात्मानं महासिद्धं सिद्धयोगीन्द्रसेवितम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
दयालुं राममन्त्रस्योपदेष्टारं तपोनिधिम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
लोकानां हितकर्त्तारं रामकीर्त्तनशिक्षया ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सत्यादिधर्मवक्तारं दम्भिनां दम्भखण्डकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगदुरुम् ॥ ६॥
संस्काराणां च मालोर्ध्वपुण्ड्रादीनां च रक्षकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
राममन्त्रादिकानां च रहस्यानां प्रबोधिनम् ।
वन्दे रामकवीरार्यं द्राराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीरामकबीराचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीरामकबीराचार्याष्टकम्
READ
श्रीरामकबीराचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
