श्रीरामकृष्णवन्दनास्तोत्रम् PDF संस्कृत
Download PDF of Ramakrrishnavandanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीरामकृष्णवन्दनास्तोत्रम् संस्कृत Lyrics
|| श्रीरामकृष्णवन्दनास्तोत्रम् ||
जगज्जातं त्यक्तं हिमगिरिसुता पादकमले
शरीराद्याः प्राणा वलय इव येनार्पणमिताः ।
त्रिवर्गोयच्छ्रद्धाविमल गुरुभक्त्याहि सुलभो
नुमो रामकृष्णं सुरनुतपदं भेदरहितम् ॥ १॥
स्वयं त्यक्तं प्रोक्तं हृदयकरशाखोल्लिखनतः
पुरा रामात् कृष्णः समभवदनन्यो न हि परः ।
इदानीमायान्तं नयनविषयत्वं जनिभृतां
प्रविष्टो देहेऽस्मिन्निति कनककामातिगतया ॥ २॥
यदद्वैतं शान्तं सततमघमायाविरहितं
चिदानन्दं शुद्धं प्रकृतिसहितं प्रेमवशगम् ।
त्वमेवाविर्भूतः करणविषये दुर्लभतरो
जगज्जीवैः क्रीड़न्महदमितवीर्यो रसतमः ॥ ३॥
त्वमेव श्रीरामो मधुरिपुहरिर्गोपतनयः
स्वयम्भूतश्चाद्यः परमपुरुषो नाथ रमण ।
विवादं धर्माणां शमयितुमनाश्चिन्मयवपुः
प्रसन्नो लोकानां प्रकटितमकार्षीः पुनरिह ॥ ४॥
त्वदीयाङ्घ्रिद्वन्द्वक्षरितमकरन्दं प्रतिदिशं
सदा पायं पायं कलितभवभीतिं प्रशमयन् ।
भजन् साम्यानन्दं विमलहृदयो याति परमां
जनानां सङ्घोऽयं निखिलभुवि शान्तिं मुहुरहो ॥ ५॥
समाधावानन्दं पुनरतिविशुद्धं हरिकथा-
प्रसङ्गादुद्बुद्धं करणगणरोधं प्रविवहन् ।
नराणां भक्तानां हृदयपुलकानां प्रतिदिनं
समाधानं चक्रे य इह शरणं मेऽस्तु सततम् ॥ ६॥
ध्रु वा मूर्तिर्गङ्गा-तटपरिगता या गुणमयी
गुणातीतापि स्यान्ननुलसति दक्षेश्वरमणिः ।
व्रजन्ती गायन्ती भवतारिणी मातुर्गुणकथाः
सदा स्वान्ते सा मे स्फुरतु रमणीया द्युतिमयी ॥ ७॥
कृपापीयूषाम्भः पतितमधिकं पातकिजने
दयासिन्धो मन्दे रसिकचतुर प्रीतरसिक ।
दरिद्राणां बन्धो तव विदुरगेहे सुखलवाः
समर्थो निर्णेतुं क इह महिमानं ननु बुधः ॥ ८॥
समुद्धर्तुं लोकान् स्वयमधिगतिस्ते प्रतिगृहं
क्व देवेन्द्रादीनां वसति-भवनं क्व शशधृक् ।
गुणानां साधूनां त्वयि निवसनं गुणधर
स्मरामो नित्यानामपि निरभिमानं निरुपमम् ॥ ९॥
नियन्ता जीवानामपिशिशुवदेवानुनटसि
स्वतन्त्रः सर्वेषामिव चरसि देवीपरगतः ।
अभिज्ञाता विश्वं भणसि ननु मूर्खाभिध इति
प्रियां ते जानीमो निज-सकलगुप्तिं नटवर ॥ १०॥
नमो रामैक्यामितमधुर देवीमयतनु-
भृते कृष्णैक्याय श्रुतपरमहंसाय यतये ।
नमश्चन्द्रामण्याः प्रियतनयदेवाय गतये
नमः सर्वस्वाय प्रणयिक्षुदिरामस्य मणये ॥ ११॥
इयं स्तुति कथा पूजा रामकृष्णे परे गुरौ ।
अर्पिता तेन देवेशः प्रीयतां परमेश्वरः ॥ १२॥
इति ब्रह्मचारी मेधाचैतन्येन विरचितं
“श्रीश्रीरामकृष्णवन्दनास्तोत्रम्” सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीरामकृष्णवन्दनास्तोत्रम्
READ
श्रीरामकृष्णवन्दनास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
