श्रीरमणप्रातस्स्मरणस्तोत्रम् PDF संस्कृत
Download PDF of Ramanapratassmaranastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीरमणप्रातस्स्मरणस्तोत्रम् संस्कृत Lyrics
|| श्रीरमणप्रातस्स्मरणस्तोत्रम् ||
॥ श्रीमते रमणाय नमः ॥
प्रातस्स्मराम्यरुणशैलनितम्बदीव्य-
त्पुण्याश्रमे रुचिरमञ्चवरे शयानम् ।
प्रावारकाऽऽवृततनुं मुकुलीकृताक्ष-
मन्तर्मुखं रमणमात्मसमाधिलीनम् ॥ १॥
प्रातर्नमाम्यरुणशैलविहारलोल-
मस्पर्शयोगसहजात्मसमाधिवश्यम् ।
आविर्भवन्निजसुखानुभवैकतृप्त-
मव्याजभूतकरुणं रमणं शरण्यम् ॥ २॥
प्रातर्भजाम्यपरिलुप्तनिगूढशक्तिं
ज्ञानाग्निदग्धसहकारणजन्मबीजम् ।
लोकं समस्तमपि योजयितुं सुखेन
लीलागृहीतवपुषं रमणं मुनीन्द्रम् ॥ ३॥
प्रातस्स्तुवे स्तुतिपथातिगमप्रमेय –
मासेविनाममृतभावविधानदक्षम् ।
आसेचनं नयनयोरनवद्यशील-
मह्मोनिवारणचणं रमणं यतीन्द्रम् ॥ ४॥
प्रातर्ब्रुवे रमणपावननामधेयं
यद्भागधेयमखिलस्य तनोति जन्तोः ।
आम्रेडितं हरति यद्वृजिनं समस्तं
येन क्रमाद्भवतिसोऽहमिति प्रबोधः ॥ ५॥
यः श्लोकपञ्चकमिदं पठति प्रभाते
सौभाग्यदं भगवतो रमणेश्वरस्य ।
तस्मै समस्तजनकर्मफलप्रदाता
श्रेयस्स एव रमणस्सकलं ददाति ॥ ६॥
इति श्रीरमणप्रातस्स्मरणस्तोत्रं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीरमणप्रातस्स्मरणस्तोत्रम्
READ
श्रीरमणप्रातस्स्मरणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
