रङ्गनाथाष्टकम् PDF संस्कृत
Download PDF of Ranganathashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
रङ्गनाथाष्टकम् संस्कृत Lyrics
|| रङ्गनाथाष्टकम् ||
आनन्दरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।
शशाङ्करूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे ॥ १ ॥
कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुकेले ।
दैत्यान्तकालेऽखिललोकलीले
श्रीरङ्गलीले रमतां मनो मे ॥ २ ॥
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे ।
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे ॥ ३ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये ।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो मे ॥ ४ ॥
ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे ॥ ५ ॥
अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे ।
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे ॥ ६ ॥
सचित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे ॥ ७ ॥
इदं हि रङ्गं त्यजतामिहाङ्गं
पुनर्न चाङ्गं यदि चाङ्गमेति ।
पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं
याने विहङ्गं शयने भुजङ्गम् ॥ ८ ॥
रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय यः पठेत् ।
सर्वान्कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥ ९ ॥
इति श्री रङ्गनाथाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowरङ्गनाथाष्टकम्

READ
रङ्गनाथाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
