श्रीमदृश्यशृङ्गेश्वरस्तुतिः PDF संस्कृत
Download PDF of Rrishyashrringeshvarastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीमदृश्यशृङ्गेश्वरस्तुतिः संस्कृत Lyrics
|| श्रीमदृश्यशृङ्गेश्वरस्तुतिः ||
कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् ।
नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ १॥
प्राणायामैर्ध्यानैनष्टं चित्तं विधाय मुनिवर्याः ।
यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्किञ्चित् ॥ २॥
वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् ।
खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ ३॥
शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् ।
शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम् ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीमदृश्यशृङ्गेश्वरस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमदृश्यशृङ्गेश्वरस्तुतिः
READ
श्रीमदृश्यशृङ्गेश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
