रुद्रविभूतिस्तोत्रम् PDF संस्कृत
Download PDF of Rudravibhutistotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
रुद्रविभूतिस्तोत्रम् संस्कृत Lyrics
|| रुद्रविभूतिस्तोत्रम् ||
नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे ।
मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे ॥ १॥
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।
नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥ २॥
उग्रोऽसि सर्वभूतानां नियन्तासि शिवोऽसि नः ।
नमः शिवाय शर्वाय शङ्करायार्तिहारिणे ॥ ३॥
ग्रहाधिपत्ये भगवानभ्यषिञ्चद्दिवाकरम् ।
वृक्षाणां ओषधीनां च सोमं ब्रह्मा प्रजापतिः ॥ ४॥
अपां च वरुणं देवं धनानां यक्षपुङ्गवम् ।
आदित्यानां तथा विष्णुं वसूनां पावकं तथा ॥ ५॥
प्रजापतीनां दक्षं च मरुतां शक्रमेव च ।
दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम् ॥ ६॥
धर्मं पितॄणामधिपं निरृतिं पिशितासिनाम् ।
रुद्रं पशूनां भूतानां नन्दीनां गणनायकम् ॥ ७॥
वीराणां विरभद्रं च पिशाचानां भयङ्करम् ।
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम् ॥ ८॥
रुद्राणां देवदेवेशं नीललोहितमीश्वरम् ।
विघ्नानां व्योमजं देवं गजास्यं तु विनायकम् ॥ ९॥
स्त्रीणां देवीं उमादेवीं वचसां च सरस्वतीम् ।
विष्णुं मायाविनां चैव स्वत्मानां जगतां तथा ॥ १०॥
हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम् ।
समुद्राणां च सर्वेषामधिपं पयसां निधिम् ॥ ११॥
वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः ॥ १२॥
गन्धर्वविद्याधरकिन्नराणामीशं पुनाश्चित्ररथं चकार ।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम् ॥ १३॥
दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम् ।
सुपर्णमीशं पततामथाश्वराजानामुच्छैःश्रवसं चकार ॥ १४॥
सिंहं मृगाणां वृषभं गावां च मृगाधिपानां शरभं चकार ।
सेनाधिपानां गुहमप्रमेयं श्रुतीस्मृतीनां लकुलीशमीशम् ॥ १५॥
अभ्यषिञ्चत्सुधर्माणं तथा शङ्खापदं दिशाम् ।
केतुमन्तं क्रमेणैव हेमरोमाणमेव च ॥ १६॥
पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम् ।
चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम् ॥ १७॥
इति रुद्रविभूतिस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowरुद्रविभूतिस्तोत्रम्
READ
रुद्रविभूतिस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
