सद्गुरुश्रीत्यागराजमङ्गलाष्टकम् PDF संस्कृत
Download PDF of Sadgurumangalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
सद्गुरुश्रीत्यागराजमङ्गलाष्टकम् संस्कृत Lyrics
|| सद्गुरुश्रीत्यागराजमङ्गलाष्टकम् ||
ॐ
श्रीरामजयम् ।
सद्गुरु श्रीत्यागराजस्वामिने नमो नमः ।
अथ सद्गुरुमङ्गलाष्टकम् ।
हिमगद्यप्रसन्नाय हिमगद्यालयाय च ।
हिमगद्यप्रसादाय गुरुदेवाय मङ्गलम् ॥ १॥
हिमोत्तुङ्गसुपुण्याय हिमसानुसुकीर्तये ।
हिमगङ्गासुवाग्गाय गुरुदेवाय मङ्गलम् ॥ २॥
हिममौनप्रशान्ताय हिमगङ्गासुपूतये ।
हिमशान्तिप्रदात्रे च गुरुदेवाय मङ्गलम् ॥ ३॥
चतुर्धामसुपुण्याय पुष्पामोदसुगीतये ।
नारायणसुगेयाय त्यागराजाय मङ्गलम् ॥ ४॥
देवदारुसुगीताय नामपक्षिस्वराय च ।
कृत्यामोदसमीराय गुरुदेवाय मङ्गलम् ॥ ५॥
तलकाचतटाकाय तालरागहिमाद्रये ।
गललीनसुगङ्गाय गुरुदेवाय मङ्गलम् ॥ ६॥
नीलाकाशविकाशाय शुद्धश्वेतघनाय च ।
बालालापप्रमोदाय गुरुदेवाय मङ्गलम् ॥ ७॥
हिमालयप्रभावाय बृहदुत्तमगीतये ।
सद्गुरुत्यागराजाय सर्वस्वाय सुमङ्गलम् ॥ ८॥
ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं
सद्गुरुमङ्गलाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसद्गुरुश्रीत्यागराजमङ्गलाष्टकम्
READ
सद्गुरुश्रीत्यागराजमङ्गलाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
