सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् PDF संस्कृत
Download PDF of Sadgurushrityagabrahmamangalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् संस्कृत Lyrics
|| सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ||
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ॥
ॐ रागराजाय विद्महे रक्तिरूपाय धीमहि ।
तन्नस्त्यागः प्रचोदयात् ॥
अथ मङ्गलाष्टकम् ।
ॐ
सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ।
नादब्रह्मावताराय रामस्वारामगानिने ।
रागस्वरलयाधाय त्यागराजाय मङ्गलम् ॥ १॥
सङ्गीतयोगश्रेष्ठाय सत्कीर्तनसुकीर्तये ।
सङ्गीतगुरुदेवाय त्यागराजाय मङ्गलम् ॥ २॥
रिपुभीषणगेयाय रीयमाणस्वरादये ।
रुद्राधीशनुतीशाय त्यागराजाय मङ्गलम् ॥ ३॥
गङ्गापावनगानाय गान्धर्वाद्भुतगीतये ।
गीतमण्डलशोभाय गुरुनाथाय मङ्गलम् ॥ ४॥
मङ्गल्यवाक्प्रवाहाय माधुर्यमयभाषिणे ।
मौनोपदेशबोधाय त्यागराजाय मङ्गलम् ॥ ५॥
पञ्चापगोदितार्काय परेशहरिपार्श्विने ।
पूर्णत्वबोधिपूज्याय त्यागराजाय मङ्गलम् ॥ ६॥
धन्यश्रीरामरामाय धामश्रीरामरागिणे ।
ध्यातश्रीरामदिव्याय त्यागराजाय मङ्गलम् ॥ ७॥
निषादमित्रमित्राय निष्ठानुग्रहकारिणे ।
सङ्गीतपुष्पासाराय त्यागराजाय मङ्गलम् ॥ ८॥
ॐ
ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतत्रिशतिपञ्चशति-
सहस्रनामावलिपुष्पकदम्बकं शरणागतिगद्यं मङ्गलाष्टकं
च सद्गुरोराराधनार्थं पुष्पानामलेखनीरूपेण गुरुणैव रचितम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम्
READ
सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
