सद्गुरुश्रीत्यागराजाष्टकम् PDF संस्कृत
Download PDF of Sadgurutyagarajashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
सद्गुरुश्रीत्यागराजाष्टकम् संस्कृत Lyrics
|| सद्गुरुश्रीत्यागराजाष्टकम् ||
ॐ
श्रीरामजयम् ।
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वमिने नमो नमः ।
त्यागराजाय विद्महे । नादहिम्याय धीमहि ।
तन्नस्सद्गुरुः प्रचोदयात् ॥
अथ सद्गुरुश्रीत्यागराजाष्टकम् ।
सद्गुरुत्यागराजाय हिमशैलस्मृताय च ।
शैलोत्तुङ्गसुगुण्याय महात्मने नमो नमः ॥ १॥
नामगङ्गासुधाराय ज्ञानहिम्याचलाय च ।
प्राणसंस्फूर्तिकाराय पावनाय नमो नमः ॥ २॥
हिमगद्यप्रचोदाय गङ्गास्तोत्रप्रभूतये ।
गद्यपद्यप्रमोदाय गुरुदेवाय ते नमः ॥ ३॥
ध्यानगङ्गानिमग्नाय गानगङ्गाप्रसारिणे ।
ज्ञानगङ्गाप्रभावाय नमो मत्प्राणशक्तये ॥ ४॥
नारायणाप्तकामाय नागशायिसुगायिने ।
नादमण्डलवृत्ताय नादसद्गुरवे नमः ॥ ५॥
सप्तस्वराधिवासाय सद्गङ्गासदनाय च ।
सीतारामाभिरामाय सद्गुरुस्वामिने नमः ॥ ६॥
सत्यवाक्सत्यरूपाय सत्त्वातीतैकशक्तये ।
सत्यश्रीरामनिष्ठाय त्यागराजाय ते नमः ॥ ७॥
नमो मद्गुरुदेवाय नमो मङ्गलमूर्तये ।
नमो नादावताराय पुष्पार्चिताय ते नमः ॥ ८॥
ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं
सद्गुरुश्रीत्यागराजाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसद्गुरुश्रीत्यागराजाष्टकम्
READ
सद्गुरुश्रीत्यागराजाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
