उममहेश्वराष्टकम् (सङ्घिल कृतम्) PDF संस्कृत
Download PDF of Sanghila Krita Uma Maheswara Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
उममहेश्वराष्टकम् (सङ्घिल कृतम्) संस्कृत Lyrics
|| उममहेश्वराष्टकम् (सङ्घिल कृतम्) ||
पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १ ॥
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २ ॥
शैलराजस्य जामातः शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ३ ॥
शैलराजात्मजे मातः शातकुम्भनिभप्रभे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४ ॥
भूतनाथ पुराराते भुजङ्गामृतभूषण ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ५ ॥
पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६ ॥
हालास्येश दयामूर्ते हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ७ ॥
नितम्बिनि महेशस्य कदम्बवननायिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८ ॥
इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतं उमामहेश्वराष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowउममहेश्वराष्टकम् (सङ्घिल कृतम्)
READ
उममहेश्वराष्टकम् (सङ्घिल कृतम्)
on HinduNidhi Android App