श्रीसन्तदासाष्टकम् PDF संस्कृत
Download PDF of Santadasashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीसन्तदासाष्टकम् संस्कृत Lyrics
|| श्रीसन्तदासाष्टकम् ||
(श्री लक्ष्मीमिश्रविरचितं)
शरदिन्दु-कुन्द-तुषार-हार-पवीर-पारदसुन्दरं
जप-मालिका-मणि-पद्मपाणिमशेषलोकहितैषिणम् ।
कुलमौलिमादिगुरुं जटामुकुटादिभूषणभूषितं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शितविष्णुकम् ॥ १॥
शुमनिम्बभानुपथानुगं हरिभक्तिपरायणं शिवं
बहुलानुरागनिवासरासविलासदर्शनरागिणम् ।
रमणीय वेणुनिनाद-वादविवाद-संश्रवणे रुचिम्,
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शितविष्णुकम् ॥ २॥
शिवब्रह्मविष्णुप्रपूजकं निजभक्तिरक्षितसाधकं
नवसिद्धयोगीमुनीन्द्रवन्दितनिम्ब भानुकुलोद्भवम् ।
करुणालयं हि उदारता करशान्तदान्त-सुमन्दिरं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शित विष्णुवम् ॥ ३॥
सकलां विहाय स्वसम्पदं मुरारिपादसमाश्रितं
जगतां स्वकीयविशुद्धमार्गप्रदर्शकं हरिसेवकम् ।
कलिकल्मषघ्नमशेषसद्गुणसागरं नरनागरं
प्रणमामि सम्प्रति-“सन्तदास”मिहैव दर्शित विष्णुकम् ॥ ४॥
सनकादिकैर्मुनिभिः प्रदर्शितपद्धतौ पथिकं स्थिरं
जगतीतलैक-सुवाटिका हृदिकञ्जकुड्मलषटपदम् ।
वृषभानुजाप्रियपद्मरेणुसितं हितं सुललाटकं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शितविष्णुकम् ॥ ५॥
यमुनातरङ्गसमाकुले पुलिने विहारपरायणं
निजधर्मकर्मपथे स्थितं प्रथितं विचारप्रवाहने ।
सततं सुसेवितसज्जनं जनतां सुधीर-प्रचारकं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शित विष्णुकम् ॥ ६॥
गुरुपादपद्मरजःकणैर्विमलीकृतं सुललाटकं
मुनिमण्डलीनदराजहंसमसङ्ख्यशिष्यसुसेवितम् ।
हरिनामपावनसागरं ब्रजधूलिभूषणभूषितं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शित विष्णुकम् ॥ ७॥
निजसम्प्रदायसमुन्नतौ यतमानमामरणं परं
जगतीतलैकसुधाकरं निजभक्तजनैक सुरक्षकम् ।
कलिकल्मषोत्कटतापनं भवसागरात् परित्राणदं
प्रणमामि सम्प्रति “सन्तदास”मिहैव दर्शितविष्णुकम् ॥ ८॥
भक्तिमान् यः पठेन्नित्यं सन्तदासाष्टकं शुभम् ।
ऐहिकं हि सुखं भुक्त्वाचान्ते मोक्षमवाप्नुयात् ॥
भक्तिदं वैष्णवाणां च मुमुक्षूणां च मोक्षदम् ।
सन्तदासाष्टकं श्रुत्वा नरः सद्गतिमाप्नुयात् ॥
इति श्रीलक्ष्मीमिश्रविरचितं श्रीसन्तदासाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसन्तदासाष्टकम्
READ
श्रीसन्तदासाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
