सप्तशतीध्यानात्मकं स्तोत्रम् PDF संस्कृत
Download PDF of Saptashatidhyanatmaka Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
सप्तशतीध्यानात्मकं स्तोत्रम् संस्कृत Lyrics
|| सप्तशतीध्यानात्मकं स्तोत्रम् ||
श्रीगणेशाय नमः ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रदरालिखेटविशिखाँश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ १॥
मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि सहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥
या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी ।
या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा
सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥
दुर्गां ध्यायतु दुर्गतिप्रशमनीं दूर्वादलश्यामलां
चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् ।
चक्रं शङ्खमिषुं धनुश्च दधतीं कोदण्डबाणाशयो-
र्मुद्रेवाभयकामदे सकटिबन्धाभीष्टदां वानयोः ॥ ४॥
भावोद्भेदवृता सहाभयवरा विस्रस्तनीलालका
बिम्बोष्ठी तरुणाऽरुणाब्जचरणा रक्तान्तनेत्रत्रया ।
पीनोरुस्तनभारभङ्गुरतनुः श्यामा प्रसन्नानना
देवी वस्त्वरिता तनोतु विभवानानन्दयन्ती मनः ॥ ५॥
मुक्ताविद्युत्पयोदस्फटिकनवजपाभास्वरैः पञ्चवक्त्रैः
शीतांशूल्लासिचूडैस्त्रिनयनलसितैर्भासुरामच्छवर्णाम् ।
चक्रं शङ्खं कपालं गुणपरशुसुधाकुम्भवेदाक्षमाला
विद्यापद्मान्वहन्तीं नमत मुनिनतां भारतीं पद्मसंस्थाम् ॥ ६॥
हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुलेखा ।
विद्यावीणाऽमृतमयघटाक्षस्रजादीप्तहस्ता
श्वेताब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ७॥
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयं च दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ८॥
शङ्खं चक्रमथो धनुश्च दधतीं बिभ्रामितां तर्जनीं
वामे शक्तिमसिं शरान्कलयतीं तिर्यक् त्रिशूलं भुजैः ।
सन्नद्धां विविधायुधैः परिवृतां मन्त्री कुमारीजनै-
र्ध्यायेदिष्टवरप्रदां त्रिनयनां सिंहाधिरूढां शिवाम् ॥ ९॥
शङ्खासिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरसिद्धनुतां च दुर्गां
दूर्वानिभां दुरितवर्गहरां नमामि ॥ १०॥
प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् ।
सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥ ११॥
शोणप्रभां सोमकलावतंसां पाणिस्फुरत्पञ्चशरेषुचापाम् ।
प्राणप्रियां नौमि पिनाकपाणेः कोणत्रयस्थां कुलदेवतां मे ॥ १२॥
खड्गोद्भिन्नेन्दुबिम्बस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा
सव्ये पाणौ कपालाद्गलदमृतमथो मुक्तकेशी पिबन्ती ।
दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युता दीप्तजिह्वा
पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा ॥ १३॥
सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरैर्बिभ्रतीं
घोरास्यां शिरसाऽस्रजासुरुचिरामुन्मुक्तकेशावलिम् ।
सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं
श्यामाङ्गीं कृतमेखलाशवकरां देवीं भजे कालिकाम् ॥ १४॥
सर्वाद्यामगुणामलक्ष्यवपुषं व्याप्याखिलं संस्तुतां
लक्ष्यां च त्रिगुणात्मिकां कनकभां सौवर्णभूषान्विताम् ।
बीजापूरगदे च खेटकसुधापात्रे करैर्बिभ्रतीं
योनिं लिङ्गमहिं च मूर्ध्नि दधतीं चण्डीं भजे चिन्मयीम् ॥ १५॥
धृत्वा श्रीर्मातुलिङ्गं तदुपरि च गदां खेटकं पानपात्रं
नागं लिङ्गं च योनिं शिरसि धृतवती राजते हेमवर्णा ।
आद्या शक्तिस्त्रिरूपा त्रिगुणपरिवृता ब्रह्मणो हेतुभूता
विश्वाद्या सृष्टिकर्त्री वसतु मम गृहे सर्वदा सुप्रसन्ना ॥ १६॥
या सा पद्मासनस्था विपुलकटितटीपद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुभै-
र्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ १७॥
लक्ष्मीं कोल्हापुरस्थां भुवि गणपतिनाऽग्रे च पार्श्वद्वये तां
काल्या वाण्याऽऽसमन्तात्परिजननिकरैः सेवितां देवताभिः ।
नागं लिङ्गं च योनिं स्वशिरसि दधतीं मातुलिङ्गं गदां तत्
खेटं श्रीपानपात्रं त्रिभुवनजननीं नौमि दोर्भिश्चतुर्भिः ॥ १८॥
हस्तैः पद्मं रथाङ्ग गुणमथ हरिणं पुस्तकं वर्णमालां
टङ्कं शूलं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् ।
मुक्ताविद्युत्पयोधेः स्फटिकनवजपाबन्धुरैः पञ्चवक्त्रै-
स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां मातृकां तां नमामि ॥ १९॥
ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथरुद्रसहिता रक्षन्तु मां मातरः ॥ २०॥
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।
मणिमुकुटविचित्राऽलङ्कृता कल्पजालै-
र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ॥ २१॥
हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ २२॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामतिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ २३॥
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जै-
र्मेघश्यामा किरीटोल्लसितशशिकला भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ २४॥
अष्टौभुजाङ्गीन् महिषस्य मर्दिनीं सशङ्खचक्रां शरशूलधारिणीम् ।
तां दिव्यरूपां सह जातवेदसीं दुर्गां सदा शरणमहं प्रपद्ये ॥ २५॥
महिषमस्तकनृत्तविनोदनस्फुटरणन्मणिनूपुरमेखला ।
जननरक्षणमोक्षविधायिनी जयतु शुम्भनिशुम्भनिषूदनी ॥ २६॥
उद्धतौ मधुकैटभौ महिषासुरं च निहत्य तं
धूम्रलोचन चण्ड मुण्ड रक्तबीजमुखांश्च तान् ।
दुष्टशुम्भनिशुम्भमर्दिनि नन्दिताऽमरवन्दिते
विष्टपत्रयतुष्टिकारिणि भद्रकालि नमोऽस्तु ते ॥ २७॥
लक्ष्मीप्रदानसमये नवविद्रुमाभां
विद्याप्रदानसमये शरदिन्दुशुभ्राम् ।
विद्वेषिवर्गविजयेऽपि तमालनीलां
देवीं त्रिलोकजननीं शरणं प्रपद्ये ॥ २८॥
चन्द्रहासं त्रिशूलं च शङ्खचक्रगदास्तथा ।
धनुर्बाणं च मुसलं पिङ्गलं मुष्टिमेव च ॥ २९॥
पाशाङ्कुशभुसुण्ठीश्च मुद्गरं परशुं तथा ।
वज्रायुधं च कुन्तं च खट्वाङ्गं च हलायुधम् ॥ ३०॥
तूणीरं क्षुरिकां मुद्रां तोमरं पानपात्रकम् ।
पट्टसन्दण्डनागं च कुन्तदन्तौ तथैव च ॥ ३१॥
दर्पणं रुद्रवीणां च बिभ्रद्वात्रिंशदोस्तलाम् ।
पद्मरागप्रभां देवीं बालार्ककिरणारुणाम् ॥ ३२॥
रक्तवस्त्रपरीधानां रक्तमाल्यानुलेपनाम् ।
दशपादाम्बुजां देवीं दशमण्डलपूरिताम् ॥ ३३॥
दशाननां त्रिनेत्रां च समुन्नतपयोधराम् ।
एवं ध्यायेन्महाज्वालां महिषासुरमर्दिनीम् ॥ ३४॥
सर्वदारिद्र्यशमनीं सर्वदुःखनिवारिणीम् ।
ब्रह्माण्डमध्यजिह्वां तां महावक्त्रकरालिनीम् ॥ ३५॥
दशसाहस्रदोर्दण्डां नानाशस्त्रास्त्रधारिणीम् ।
विचित्रायुधसन्नद्धां विश्वरूपां शिवात्मिकाम् ॥ ३६॥
दानवान्तकरीं देवीं रक्तबीजवधोद्यताम् ।
रक्तवस्त्रधरां चण्डीं भीषणामतिभैरवाम् ॥ ३७॥
सम्पूर्णयौवनां लक्ष्मीं कालिकां कमलाननाम् ।
मधुकैटभसहर्त्रीं महिषासुरमर्दिनीम् ॥ ३८॥
चण्डमुण्डशिरश्छेत्त्रीं सर्वदैत्यनिषूदिनीम् ।
रक्तबीजस्य सहर्त्रीमशेषासुरभक्षिणीम् ॥ ३९॥
निशुम्भशुम्भमथिनीमशेषायुधभीषणाम् ।
महाब्रह्माण्डमालाङ्गीं सर्वाभरणभूषिताम् ॥ ४०॥
वेतालवाहनारूढां सिंहव्याघ्रादिवाहनाम् ।
नररक्तप्रियां मायां मधुमांसोपहारिणीम् ॥ ४१॥
य इदं शृणुयान्नित्यं त्रिसन्ध्यं यः पठेन्नरः ।
ऋणकोट्यपहरणं रोगदारिद्र्यनाशनम् ॥ ४२॥
सर्वसिद्धिकरं पुण्यं सर्वकामफलप्रदम् ।
भक्तानन्दकरीं देवीं परब्रह्मस्वरूपिणीम् ॥ ४३॥
तामष्टादशपीठस्थां त्रिपुरामधिदेवताम् ।
वन्दे विश्वेश्वरीं देवीं भुक्तिमुक्तिफलप्रदाम् ॥ ४४॥
हदं सप्तशतीध्यानं सर्वरक्षाकरं नृणाम् ।
रसं रसायनं सिद्ध्येद्गुलिकाञ्जनसिद्धिदम् ॥ ४५॥
पादुकायुगुलं सिद्ध्येन्मन्त्रसिद्धिकरं नृणाम् ।
सौन्दर्यराजसम्मानपुत्रपौत्राभिवर्धनम् ॥ ४६॥
ऐश्वर्यलाभविजयभुक्तिमुक्तिफलप्रदम् ।
सदासन्निहितां लक्ष्मीं चण्डिकां मम देवताम् ॥ ४७॥
स्मरेन्नित्यं प्रयत्नेन षण्मासात्प्राप्यते फलम् ।
महाभयापहरणं शत्रुक्षयकरं तथा ॥ ४८॥
अचलां श्रियमाप्नोति सर्वव्याधिविनाशनम् ।
अन्ते स्वर्गं च मोक्षं च सत्यमेव न संशयः ।
इति श्रीकाशीकर अनन्तभट्टसुतरामकृष्णभट्टसम्पादित-
सप्तशतीध्यानात्मकस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसप्तशतीध्यानात्मकं स्तोत्रम्
READ
सप्तशतीध्यानात्मकं स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
