श्रीसत्यवीरतीर्थस्तुतिः PDF संस्कृत
Download PDF of Satyaviratirthastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीसत्यवीरतीर्थस्तुतिः संस्कृत Lyrics
|| श्रीसत्यवीरतीर्थस्तुतिः ||
आदिघट्टाञ्जनेयस्य मूलरामस्य चार्चकम् ।
धर्मसंस्थापनासक्तं सत्यवीरमहं भजे ॥ १॥
मारिकावारकं राज्ञे सत्सन्तानप्रदं मुदा ।
स्वाराज्यस्थापकं तप्तचक्रभूषणकारकम् ॥ २॥
स्वरूपं वादिराजस्य बोधयन्तं निजान् प्रति ।
निरस्तभृत्यसमयान् शासयन्तं हिताय वै ॥ ३॥
विद्वत्सभादिव्याजेन विद्वत्पोषकमादरात् ।
विद्वदग्रेसरं शुद्धयतिधर्मप्रपालकम् ॥ ४॥
सत्पराक्रमसच्छिष्यं सत्यधीरगुरुं बुधम् ।
सुवर्णप्राणसद्भक्तं सत्यवीरमहं भजे ॥ ५॥
सत्यात्मरचितां पञ्चपद्यीं यः पठतेऽनिशम् ।
ज्ञानभक्तिविरक्त्यादि प्राप्नोतीह न चोदरम् ॥ ६॥
॥ इति श्रीसत्यात्मतीर्थश्रीपादविरचिता
श्रीसत्यवीरतीर्थस्तुतिः समाप्ता ॥
॥ श्री कृष्णार्पणमस्तु ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसत्यवीरतीर्थस्तुतिः
READ
श्रीसत्यवीरतीर्थस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
