शेषाद्रि नाथ स्तोत्र PDF हिन्दी
Download PDF of Seshadri Natha Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
शेषाद्रि नाथ स्तोत्र हिन्दी Lyrics
|| शेषाद्रि नाथ स्तोत्र ||
अरिन्दमः पङ्कजनाभ उत्तमो
जयप्रदः श्रीनिरतो महामनाः।
नारायणो मन्त्रमहार्णवस्थितः
शेषाद्रिनाथः कुरुतां कृपां मयि।
मायास्वरूपो मणिमुख्यभूषितः
सृष्टिस्थितः क्षेमकरः कृपाकरः।
शुद्धः सदा सत्त्वगुणेन पूरितः
शेषाद्रिनाथः कुरुतां कृपां मयि।
प्रद्युम्नरूपः प्रभुरव्ययेश्वरः
सुविक्रमः श्रेष्ठमतिः सुरप्रियः।
दैत्यान्तको दुष्टनृपप्रमर्दनः
शेषाद्रिनाथः कुरुतां कृपां मयि।
सुदर्शनश्चक्रगदाभुजः परः
पीताम्बरः पीनमहाभुजान्तरः।
महाहनुर्मर्त्यनितान्तरक्षकः
शेषाद्रिनाथः कुरुतां कृपां मयि।
ब्रह्मार्चितः पुण्यपदो विचक्षणः
स्तम्भोद्भवः श्रीपतिरच्युतो हरिः।
चन्द्रार्कनेत्रो गुणवान्विभूतिमान्
शेषाद्रिनाथः कुरुतां कृपां मयि।
जपेज्जनः पञ्चकवर्णमुत्तमं
नित्यं हि भक्त्या सहितस्य तस्य हि।
शेषाद्रिनाथस्य कृपानिधेः सदा
कृपाकटाक्षात् परमा गतिर्भवेत्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशेषाद्रि नाथ स्तोत्र

READ
शेषाद्रि नाथ स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
