शबरीशाष्टकम् PDF संस्कृत
Download PDF of Shabarishashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
शबरीशाष्टकम् संस्कृत Lyrics
|| शबरीशाष्टकम् ||
(मूलमन्त्राक्षरमालास्तोत्रम्)
ओङ्कारमृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं
दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम् ।
दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं
दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्याऽस्म्यहम् ॥ १॥
“घ्रू”ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत्-
कोदण्डाधिकचण्ड,माशुगमहावेगे तुरङ्गे स्थितम् ।
दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां,
शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥ २॥
“न”भ्राणं हृदयान्तरेषु, महिते पम्पात्रिवेणीजले,
प्रौढारण्यपरम्परासु, गिरिकूटेप्वम्बरोल्लङ्घिषु ।
हंहो किं बहुना? – विभान्तमनिशं सर्वत्र तेजोमयं
कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥ ३॥
“म”त्र्यास्तापनिवृत्तये भजत मां सत्यं शिवं सुन्दरं
शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थे जनुः ।
लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा
पम्पा गायति भुतनाथचरणप्रक्षालनी पावनी ॥ ४॥
“प”ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने
त्वन्माहात्म्यगुणानुकिर्तनमहानन्दे निमग्ना द्विजाः ।
भक्तानां श्रवणेषु नादलहरीपीयुषधारां नवां
नित्यानन्दधनां विभो, विदधते देवाय तुभ्यं नमः ॥ ५॥
“रा”जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन-
स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः ।
आनीलाम्बरमध्र्यभाण्डमनिशं मूध्र्ना वहन्तः स्थिता-
स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे ॥ ६॥
“य”स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके
सङ्गीतैकमये निरन्तरसमारोहा वरोहात्मके ।
एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका
हा! हा! ताम्यति; हन्त! तामनुगृहाणानन्दमूर्ते, विभो ॥ ७॥
“गो”प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मत्र्यलोकस्य शश्वत्
कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य निर्रम् ।
शास्त्रे धर्मस्य, नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी-
भर्त्रे भूताधिभर्त्रे, शबरगिरिनिवासाय तुभ्यं नमोऽस्तु ॥ ८॥
इति श्रीवासुदेवन् एलयथेन विरचितं शबरीशाष्टकं अथवा
मूलमन्त्राक्षरमालास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशबरीशाष्टकम्
READ
शबरीशाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
