षड्गोस्वाम्यष्टकम् PDF संस्कृत
Download PDF of Shadgosvamyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
षड्गोस्वाम्यष्टकम् संस्कृत Lyrics
|| षड्गोस्वाम्यष्टकम् ||
कृष्णोत्कीर्तनगाननर्तनपरौ प्रेमामृताम्भोनिधी
धीराधीरजनप्रियौ प्रियकरौ निर्मत्सरौ पूजितौ ।
श्रीचैतन्यकृपाभरौ भुवि भुवो भारावहन्तारकौ
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ १॥
नानाशास्त्रविचारणैकनिपुणौ सद्धर्मसंस्थापकौ
लोकानां हितकारिणौ त्रिभुवने मान्यौ शरण्याकरौ ।
राधाकृष्णपदारविन्दभजनानन्देन मत्तालिकौ
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ २॥
श्रीगौराङ्गगुणानुवर्णनविधौ श्रद्धासमृद्ध्यन्वितौ
पापोत्तापनिकृन्तनौ तनुभृतां गोविन्दगानामृतैः ।
आनन्दाम्बुधिवर्धनैकनिपुणौ कैवल्यनिस्तारकौ
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ३॥
त्यक्त्वा तूर्णमशेषमण्डलपतिश्रेणीं सदा तुच्छवत्
भूत्वा दीनगणेशकौ करुणया कौपीनकन्थाश्रितौ ।
गोपीभावरसामृताब्धिलहरीकल्लोलमग्नौ मुहु-
र्वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ४॥
कूजत्कोकिलहंससारसगणाकीर्णे मयूराकुले
नानारत्ननिबद्धमूलविटपश्रीयुक्तवृन्दावने ।
राधाकृष्णमहर्निशं प्रभजतौ जीवार्थदौ यौ मुदा
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ५॥
सङ्ख्यापूर्वकनामगाननतिभिः कालावसानीकृतौ
निद्राहारविहारकादिविजितौ चात्यन्तदीनौ च यौ ।
राधाकृष्णगुणस्मृतेर्मधुरिमाऽऽनन्देन सम्मोहितौ
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ६॥
राधाकुण्डतटे कलिन्दतनयातीरे च वंशीवटे
प्रेमोन्मादवशादशेषदशया ग्रस्तौ प्रमत्तौ सदा ।
गायन्तौ च कदा हरेर्गुणवरं भावाभिभूतौ मुदा
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ७॥
हे राधे व्रजदेवीके च ललिते हे नन्दसूनो कुतः
श्रीगोवर्धनकल्पपादपतले कालिन्दीवने कुतः ।
घोषन्ताविति सर्वतो व्रजपुरे खेदैर्महाविह्वलौ
वन्दे रूपसनातनौ रघुयुगौ श्रीजीवगोपालकौ ॥ ८॥
इति श्रीश्रीनिवासाचार्यविरचितं षड्गोस्वाम्यष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowषड्गोस्वाम्यष्टकम्
READ
षड्गोस्वाम्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
