श्रीशारदादेवीस्तुतिः PDF संस्कृत
Download PDF of Sharadadevistutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीशारदादेवीस्तुतिः संस्कृत Lyrics
श्रीशारदादेवीस्तुतिः PDF स्वामी रामकृष्ण परमहंस की धर्मपत्नी और आध्यात्मिक सहधर्मिणी, माँ शारदा देवी (श्री माँ) को समर्पित एक पवित्र स्तुति है। यह संस्कृत पाठ उनकी अलौकिक दिव्यता, मातृ-प्रेम और त्यागपूर्ण जीवन की महिमा का वर्णन करता है। स्तुति में उन्हें साक्षात ‘परमा प्रकृति’ और देवी सरस्वती का अवतार बताया गया है।
इस स्तुति का हिंदी PDF संस्करण भक्तों को मूल संस्कृत श्लोकों को देवनागरी लिपि में पढ़ने और उनके अर्थ को समझने में सहायता करता है। इसका पाठ आध्यात्मिक उन्नति, ज्ञान की प्राप्ति और सभी बाधाओं से सुरक्षा के लिए किया जाता है, क्योंकि माँ शारदा को रामकृष्ण मिशन में आदर्श मातृशक्ति के रूप में पूजा जाता है।
|| श्रीशारदादेवीस्तुतिः (Sharada Devi Stuti PDF) ||
रामकृष्णोऽब्रवीत् पत्नीं “शारदे ! हे सरस्वति ! ।
शक्तिस्त्वं मम विश्वेऽस्मिन् ज्ञान दानार्थमागता” ॥ १॥
श्री शारदैकदा प्राह, “ठाकुरः स्वदिवं गतः ।
परं मामत्र मातृत्वप्रचाराय नियुक्तवान्” ॥ २॥
परमा प्रकृतिः साक्षात् शक्तिरूपेण भूतले ।
देव श्रीरामकृष्णस्य गुप्तलीला-समागता ॥ ३॥
सिद्धा वा साधिका वाऽपि नासीत् साधारणी हि सा ।
मानवं देहमाश्रित्य सा साक्षाद्भवतारिणी ॥ ४॥
विविधाः साधनास्तस्या जपो वा लक्ष सङ्ख्यकः ।
नासीत् स्वफललाभाय जगत्कल्याणहेतवे ॥ ५॥
उवाच बहुशो देवी “दुर्लभं नेशदर्शनम् ।
सकृच्चक्षुर्निमीलिते शक्यं कर्तुं न संशयः” ॥ ६॥
परवर्तिनि काले तु चक्षुरुन्मीलनेऽपि सा ।
सर्वत्रैवाकरोद्देवी निश्चलं ब्रह्मदर्शनम् ॥ ७॥
असङ्ख्य-नरनारीणां गणं समवतारयत् ।
धृतहस्ताऽमृताम्भोधेस्तीरं श्रीरामकृष्णवत् ॥ ८॥
मातृनाम्ना तदाह्वानं श्रवणे तत्सुचेतसि ।
सविशेषोर्मिमालायाः सृष्टिः प्रभवति स्म वै ॥ ९॥
ये “मात’रिति तां देवीं सम्बोध्योचुः सभक्तिकाः ।
मुक्तेर्मार्गं च तेषां तु कृतेऽकारि तया ध्रुवम् ॥ १०॥
संन्यासिनी न सिद्ध्यर्थं साधनायै तथा न च ।
पर्वतारोहणं चक्रे पतिसेवापराऽनिशम् ॥ ११॥
“मातृदेवो भवे’त्युक्तं “पितृदेवो” भवेत्यपि ।
शास्त्रे तत्र तया प्रोक्तं “पतिदेवाः” स्त्रियो मताः ॥ १२॥
धार्मिके जीवने पत्युः कृत्वा साहाय्यमद्भुतम् ।
इत्यस्य ख्यापनं चक्रे पत्नी हि सहधर्मिणी ॥ १३॥
सदाक्षरिकभावेन स्वाम्यादेशस्य पालनम् ।
आसीत्तस्याः कृते नूनं जीवनस्य परं व्रतम् ॥ १४॥
स्त्रीभिः कथमवस्थेयं संसारेऽस्मिन्नदर्शयत् ।
आदर्शरूपमास्थाय समग्रे जीवने निजे ॥ १५॥
श्रीमत्याः शारदादेव्या जीवनं निर्मलं महत् ।
विश्वजगति स्त्री जातेः श्रेष्ठादर्शो न संशयः ॥ १६॥
आदर्शरूपिणी कन्या भार्या चादर्शरूपिणी ।
सर्वेषां मातृरूपा सा गुरुर्नैवात्र संशयः ॥ १७॥
सीता श्रीरामचन्द्रस्य राधाकृष्णस्य या मता ।
सैव श्रीरामकृष्णस्य शारदैक्यं त्रिषुस्थिरम् ॥ १८॥
इति न्यायाचार्यपण्डित-आनन्दझाइत्येतेनविरचिता “श्रीशारदादेवीस्तुतिः” समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीशारदादेवीस्तुतिः
READ
श्रीशारदादेवीस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
