शास्तुः ध्यानाष्टकम् PDF संस्कृत
Download PDF of Shastuhdhyanashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
शास्तुः ध्यानाष्टकम् संस्कृत Lyrics
|| शास्तुः ध्यानाष्टकम् ||
श्रीगणेशाय नमः ।
नमामि धर्मशास्तारं योगपीठस्थितं विभुम् ।
प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे ॥ १॥
आश्यामकोमलविशालतनुं विचित्र-
वासो वसानमरुणोत्पलवामहस्तम् ।
उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २॥
हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः ।
विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः ॥ ३॥
पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम् ।
श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च ।
शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपं
वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम् ॥ ४॥
स्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासिनं
स्फूर्जत्पत्रसुकॢप्तकुण्डलमथेष्विष्वासभृद्दोर्द्वयम् ।
नीलक्षौमवसं नवीनजलदश्यामं प्रभासत्यक-
स्वायत्पार्श्वयुगं सुरक्तसकलाकल्पं स्मरेदार्यकम् ॥ ५॥
कोदण्डं सशरं भुजेन भुजगेन्द्राभोगभासा वहन्
वामेन क्षुरिकां विपक्षदलने पक्षेण दक्षेण च ।
कान्त्या निर्जितनीरदः पुरभिदः क्रीडत्किराताकृतेः
पुत्रोऽस्माकमनल्पनिर्मलयशाः निर्मातु शर्मानिशम् ॥ ६॥
काळाम्भोदकलाभकोमलतनुं बालेन्दुचूडं विभुं
बालार्कायुतरोचिषं शरलसत्कोदण्डबाणान्वितम् ।
वीरश्रीरमणं रणोत्सुकमिषद्रक्ताम्बुभूषाञ्जलिं
कालारातिसुतं किरातवपुषं वन्दे परं दैवतम् ॥ ७॥
साध्यं स्वपार्श्वेन विबुद्ध्य गाढं
निपातयन्तं खलु साधकस्य ।
पादाब्जयोर्मण्डधरं त्रिनेत्रं
भजेम शास्तारमभीष्टसिद्ध्यै ॥ ८॥
॥ इति शास्तुः ध्यानाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशास्तुः ध्यानाष्टकम्
READ
शास्तुः ध्यानाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
