बृहद्बलकृता शिवगिरिजास्तुतिः PDF संस्कृत
Download PDF of Shivagirijastutih Brrihadbalakrrita Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
बृहद्बलकृता शिवगिरिजास्तुतिः संस्कृत Lyrics
|| बृहद्बलकृता शिवगिरिजास्तुतिः ||
सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं
महेश्वरं मयस्करं शिवं भजेय शङ्करम् ।
भुजङ्गराजहारकं सुमारमारहारकं
महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥ १॥
सुरारिवृन्ददुःखदं शुभाङ्गदं शुभास्पदं
सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् ।
विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं
धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥ २॥
उमापतिं सभापतिं दिशाम्पतिं पशोर्पतिं
गिराम्पतिं पतेर्पतिं भजे शिवं दिवस्पतिम् ॥ ३॥
दन्वित्वक्परिधान शङ्कर महादेवेश मा मा जहि
विभ्रन्मेरुशरासनं हरिशरो हस्तेन जिघ्रन् शिरः ।
तूर्णं तर्णकमेत्य प्रम्नुतपयः पूरा यथा गौर्भवेत्
तद्वत्त्वं गिरिजामनोहर विभो हृत्पद्मसंस्थो मम ॥ ४॥
त्वत्पादभ्रमरस्य भक्तिसुरसामोदाप्तये केवलम् ॥ ५॥
विष्णुवेदे च गीतस्त्वमसि भगवन् शङ्कर विभो
सुधन्वा चापि त्वं त्वमसि भव विश्वाधिक भिषक् ।
तमीशानं यक्ष्ये निखिलसुमनस्त्वाय च हरं
नमामि त्वत्पादं शरणद शिवं स्तौमि वचसा ॥ ६॥
उन्मत्तकुम्भिकरसन्निभकण्ठसंस्थ
(उन्मत्तकुम्भिकरसन्निभोकुरु)
कुम्भीनसोल्लसविलोलसुभूरिहारम् ।
(कुम्भीनसोल्लासविलोलहारम्)
कुम्भीन्द्रवक्त्रोज्ज्वलपुत्रवर्यं
भजामि कुम्भोद्भवपूजिताङ्घ्रिम् ॥ ७॥
विद्रुमाधरनिराकृतबिम्बां वक्त्रनिर्जितसुधाकरबिम्बाम् ।
ईश्वरीमनिशमात्तकदम्बां मन्मनः स्पृशतु तां जगदम्बाम् ॥ ८॥
पादयोरवनतामरदारान् भक्तलोककलुषाद्विदारान् ।
भावुकस्य हृदयाधिविहारान्मन्मनो भज जगत्पतिदारान् ॥ ९॥
पापराशिषु शिखां भृशमौर्वीं विभ्रतीमधिकचं स्मरमौर्वीम् ।
नेत्रपद्मजधनेषु सुगुर्वीं मन्मनः स्पृशतु तां हृदि गुर्वीम् ॥ १०॥
॥ इति शिवरहस्यान्तर्गते बृहद्बलकृता शिवगिरिजास्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowबृहद्बलकृता शिवगिरिजास्तुतिः
READ
बृहद्बलकृता शिवगिरिजास्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
