दक्षकृता शिवस्तुतिः PDF संस्कृत
Download PDF of Shivastutihdaksha Sanskrit
Shiva ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
दक्षकृता शिवस्तुतिः संस्कृत Lyrics
|| दक्षकृता शिवस्तुतिः ||
दक्ष उवाच ।
नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् ।
कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥
कालेन फलमूलानि जायतेऽन्नादिकानि च ।
शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥
सूर्यस्तपति कालेन ज्योतिषां गण एव च ।
कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥
कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः ।
कालन पालनं तत्र कुरुने विष्णुरव्ययः ॥ ९४॥
कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च ।
यत्किचिदिह तत्सर्वं कालाधीनं न संशयः ॥ ९५॥
स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः ।
शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ९६॥
क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च ।
यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ९७॥
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ९८॥
अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो ।
नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९९॥
नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते ।
अनादिमध्यान्तविहीनभूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १००॥
इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा ।
अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ १०१॥
तेन हृष्टो महादवस्तं पुनर्नरमस्तकम् ।
भगवान् कारयामास यथापूर्व मुनीश्वराः ॥ १०२॥
प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ ।
प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ १०३॥
त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् ।
यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ १०४॥
इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् ।
मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ १०५॥
त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ ।
तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ १०६॥
तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च ।
एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ १०७॥
इति श्रीमुद्गलपुराणे प्रथमे खण्डे वक्त्रतुण्डचरिते
चतुर्थाध्यायान्तर्गता दक्षकृता शिवस्तुतिः समाप्ता ॥ १.४
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदक्षकृता शिवस्तुतिः
READ
दक्षकृता शिवस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
