शिवोहंस्तोत्रम् PDF संस्कृत
Download PDF of Shivohamstotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
शिवोहंस्तोत्रम् संस्कृत Lyrics
|| शिवोहंस्तोत्रम् ||
(स्रग्धरावृत्तम्)
स्वार्चिः सत्यस्य सत्यं गुणरहितपराकाशरूपं प्रशान्तं
सर्वस्मिन् यत्स्वमात्रं सदिति चिदिति वा दृश्यशून्यं विशुद्धम् ।
मायाऽविद्यादिहीनं निरतिशयसुखं निस्तरङ्गाब्धिवद्यत्
अद्वैतं ब्रह्म नित्यं श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ १॥
विश्वं नेति प्रमाणाद्विगलितजगदाकारभासा स्वमात्रः
सम्यक् सच्चिद्धनैकामृतसुखकलास्वादतृप्तो विवेकी ।
निर्द्वन्द्वो नित्यमुक्तो विगलितममताहङ्कृतिर्नित्यतृप्तः
आस्ते यद्ब्रह्ममात्रं श्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ २॥
आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं सुदुःखं
छित्त्वा संसारवृक्षं निजनिरतिशयाऽसङ्गशस्त्रेण पूर्णम् ।
भासा यस्यैव सर्वं भसितयतिरुचा भासकं भावनानां
जीवो ब्रह्मैव यत्स्याच्छ्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ ३॥
ज्ञात्वा निःसारमेवं जगदखिलमिदं भ्रान्तिमोहप्रदं यत्
त्यक्त्वा भोगैकवाञ्छां विरतियुत इतो मन्यते यत्स्वसौख्यम् ।
आमृत्योर्बह्मलोकं शत शत गुणितं तारतम्येन भान्तं
यस्मिन्नल्पं सुखं यच्छ्रुतिषु निगदितं केवलं तच्छिवोऽहम् ॥ ४॥
मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत्
उक्त्वा यत्पूर्णरूपं श्रुतिशिरसि मतं नेह नानास्ति वाचा ।
आप्तोक्त्या भाति यद्वद्व्यपगतफणिनीरज्जुरेका भ्रमान्ते
तद्वद्ब्रह्माद्वयं यच्छ्रुतिषु निगदितं केवलं तच्छिवोहऽम् ॥ ५॥
(अनुष्टुप् छन्दः)
य एवमनुसम्प्राप्तं पञ्चश्लोकात्मकं हरम् ।
स्वरूपमनुसन्धाय पठते मुक्त एव सः ॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीशिवोऽहंस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशिवोहंस्तोत्रम्
READ
शिवोहंस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
