श्रीराधाष्टकम् PDF संस्कृत
Download PDF of Shri Radhaashtakam Sanskrit
Shri Radha ✦ Bhajan (भजन संग्रह) ✦ संस्कृत
श्रीराधाष्टकम् संस्कृत Lyrics
|| श्रीराधाष्टकम् (Radha Ashtakam PDF) ||
श्रीश्रीवृन्दावनेश्वर्यै नमः ।
दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी
विलसितखुरलीभिः खञ्जरीटस्य खेलाम् ।
हृदयमधुपमल्लीं वल्लवाधीशसूनो-
रखिलगुणगभीरां राधिकामर्चयामि ॥
पितुरिह वृषभानोरन्ववायप्रशस्तिं
जगति किल समस्ते सुष्ठु विस्तारयन्तीम् ।
व्रजपतिकुमारं खेलयन्तीं सखीभिः
सुरभिणि निजकुण्डे राधिकामर्चयामि ॥
शरदुपचितराकाकौमुदीनाथकीर्ति
प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् ।
नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां
कलितरुचितरङ्गां राधिकामर्चयामि ॥
विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी
विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् ।
मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग
स्फुरदमलकपोलां राधिकामर्चयामि ॥
अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां
अखिलविधविशाखासख्यविख्यातशीलाम् ।
स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं
धृतमधुरविनोदां राधिकामर्चयामि ॥
अतुलमहसि वृन्दारण्यराज्येऽभिषिक्तां
निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् ।
अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां
जगदघहरकीर्तिं राधिकामर्चयामि ॥
हरिपदनखकोटीपृष्ठपर्यन्तसीमा
तटमपि कलयन्तीं प्राणकोटेरभीष्टाम् ।
प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा
गुरुमतिगुरुकीर्तिं राधिकामर्चयामि ॥
अमलकनकपट्टोद्घृष्टकाश्मीरगौरीं
मधुरिमलहरीभिः सम्परीतां किशोरीम् ।
हरिभुजपरिरब्धां लब्धरोमाञ्चपालिं
स्फुरदरुणदुकूलां राधिकामर्चयामि ॥
तदमलमधुरिम्णां काममाधाररूपं
परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः ।
अहिमकिरणपुत्रीकूलकल्याणचन्द्रः
स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥
|| इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधाष्टकं सम्पूर्णम् ||
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीराधाष्टकम्
READ
श्रीराधाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
