श्री श्रीशगुणदर्पणस्तोत्रम् PDF संस्कृत
Download PDF of Shrishagunadarpana Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री श्रीशगुणदर्पणस्तोत्रम् संस्कृत Lyrics
|| श्री श्रीशगुणदर्पणस्तोत्रम् ||
या सुगन्धास्यनासादिनवद्वाराऽखिलेन या ।
दुराधर्षा सर्वसस्योदयार्थं या करीषिणी ॥ १॥
या नित्यपुष्टा सर्वाङ्गैः सौन्दर्यादिगुणैरपि ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ २॥ (श्रीसूक्तम् ९)
मातर्लक्ष्मि नमस्तुभयं माधवप्रियमानिनि ।
युवां विश्वस्य पितरावितरेतरयोगिनौ ॥ ३॥
“समना” किल मातस्त्वममुना ततयोगिनी ।
मम नाथेन देवश्च विमनाश्च न स त्वयि ॥ ४॥
त्वं वेदमानिनी वेदवेद्यः किल स ते प्रियः ।
त्वं मूलप्रकृतिर्देवी स चादिपुरुषः किल ॥ ५॥
यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते ।
स त्वां नैवाच्युतः सर्वस्यात्यये सत्यपि त्यजेत् ॥ ६॥
देवि त्वं ललनारत्नं देवोऽसौ पुरुषोत्तमः ।
युवां युवानौ सततं युवयोर्न वयोऽधिकः ॥ ७॥
त्वं पद्मिनी पद्मवक्त्रा पद्माक्षी पद्मविष्टरा ।
पद्मद्वयधरा पद्मकोशोद्यत्स्तनशोभना ॥ ८॥
पद्महस्ता पद्मपादा पद्मनाभमनःप्रिया ।
पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥ ९॥
अम्बां पीताम्बरश्रोणीं लम्बालकलसन्मुखीम् ।
बिम्बाधरोष्ठीं कस्तूरिजम्बालतिलकां भजे ॥ १०॥
रत्नोद्दीप्तसुमाङ्गल्यसूत्रावृत्तशिरोधराम् ।
कुण्डलप्रभयोद्दण्डगण्डमण्डलमण्डिताम् ॥ ११॥
कुचकञ्चुकसञ्चारिहारनिष्कमनोहराम् ।
काञ्चीकिङ्किणिमञ्जीरकङ्कणाद्यैरलङ्कृताम् ॥ १२॥
सुवर्णमण्डपे रत्नचित्रसिंहासनोत्तमे ।
नमामि हरिणा साकमिन्दिरां कृतमन्दिराम् ॥ १३॥
ब्रह्माद्या विबुधश्रेष्ठा ब्रह्माण्याद्याः सुराङ्गनाः ।
यां पूजयन्ते सेवन्ते सा मां पातु रमा सदा ॥ १४॥
सर्वालङ्कारभरितौ सर्वज्ञौ सर्वसद्गुणौ ।
शर्वादिसर्वभक्तौघ सर्वसर्वस्वदायकौ ॥ १५॥
सुमुखौ सुन्दरतरौ सुनासौ सुखचित्तनू ।
सुराराधितपादाब्जौ रमानारायणौ स्तुमः ॥ १६॥
चतुष्कपर्दा या देवी चतुरास्यादिभिः स्तुता ।
चतुर्वेदोदितगुणा चतुर्मूर्तेर्हरेः प्रिया ॥ १७॥
घृतप्रतीकां तां नित्यं घृतपूर्णान्नदायिनीम् ।
यथेष्टवित्तदात्रिं च नतोऽस्म्यभयदां श्रियम् ॥ १८॥
वादिराजेन रचितं श्रीश्रीशगुणदर्पणम् ।
इमं स्तवं पठन्मर्त्यः श्रीमान्स्यान्नात्र सशयः ॥ १९॥
॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं
श्री श्रीशगुणदर्पणस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री श्रीशगुणदर्पणस्तोत्रम्
READ
श्री श्रीशगुणदर्पणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
