श्रीस्मरणाष्टकम् PDF संस्कृत
Download PDF of Smaranashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीस्मरणाष्टकम् संस्कृत Lyrics
|| श्रीस्मरणाष्टकम् ||
यदीयसौभाग्यभरेण गोकुल
स्त्रियो न योग्यानि वचांसि सत्पतेः ।
न मानयामासुरुदारमानसा
स्तदङ्घ्रिसेवासमयं स्मरामि ॥ १॥
यद्रूपसौन्दर्यवशीकृताशया
मृगीगणाः पूजनमादधुर्मुदा ।
हित्वा समीपस्थितभर्तृभीतिं
तदङ्घिसेवासमयं स्मरामि ॥ २॥
यद्वेणुनादश्रवणैकजात
भावाङ्कुरा देववधूसमूहाः ।
प्रवृद्धभावा मुमुहुः सभर्तृका
स्तदङ्घ्रिसेवासमयं स्मरामि ॥ ३॥
यत्पादसञ्चारणजातकाम
भावा यदङ्केन नयत्यतल्पाम् ।
शान्तिं विचित्रा व्रजभूमिरेषा
तदङ्घ्रिसेवासमयं स्मरामि ॥ ४॥
यद्बाललीलाकृतचौर्यजात
सन्तोषभावा व्रजगोपवध्वः ।
उपालभन्ते समयं यमर्भकं
तदङ्घ्रिसेवासमयं स्मरामि ॥ ५॥
यं गोपनारीगणदर्शनीय
लीलं मुदा गोसुतपुच्छकर्षुकम् ।
प्रेक्षन्त्य एवोज्झितगेहकृत्याः
तङ्घ्रिसेवासमयं स्मरामि ॥ ६॥
यद्वाहुसंस्पर्शनजातभाव
रसालवावर्तुलभूतविग्रहः ।
गोवर्धनो वेद न वृष्टिपातं
तदङ्घ्रिसेवासमयं स्मरामि ॥ ७॥
यदधरसङ्गतवेणुनिनादं
विहितविषयसुखभरनिर्वादम् ।
श्रुतवत्यो मुखभक्ष्या गावः
किं न हि कुरुते तद्गतभावः ॥ ८॥
इति श्रीहरिदासोदितं स्मरणाष्टकं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीस्मरणाष्टकम्
READ
श्रीस्मरणाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
