श्रीसोमसुन्दरस्तुतिः PDF संस्कृत
Download PDF of Somasundarastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीसोमसुन्दरस्तुतिः संस्कृत Lyrics
|| श्रीसोमसुन्दरस्तुतिः ||
इन्द्रः
एकं ब्रह्माद्वितीयञ्च परिपूर्णं परापरम् ।
इति यो गीयते वेदैस्तं वन्दे सोमसुन्दरम् ॥ १॥
ज्ञातृज्ञानज्ञेयरूपं विश्वं व्याप्यं व्यवस्थितम् ।
स्वयं सर्वैरदृश्यो यस्तं वन्दे सोमसुन्दरम् ॥ २॥
अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः ।
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम् ॥ ३॥
यं विदित्वा बुधास्सर्वे कर्मबन्धविवर्जिताः ।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम् ॥ ४॥
देवदेवं यमाराध्य मृकण्डुतनयो मुनिः ।
नित्यत्वमगमत्सद्यस्तं वन्दे सोमसुन्दरम् ॥ ५॥
निजनेत्राम्बुजकृतं पूजया परितोष्य यम् ।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम् ॥ ६॥
येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात् ।
सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम् ॥ ७॥
यस्मै वेदाश्च चत्वारो नमस्यन्त वपुर्धराः ।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम् ॥ ८॥
यस्मात्परञ्चापरञ्च किञ्चिद्वस्तु न विद्यते ।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम् ॥ ९॥
यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः ।
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम् ॥ १०॥
यस्य दर्शनमात्रेण ब्रह्महत्यादिपातकम् ।
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम् ॥ ११॥
उत्तमाङ्गं च चरणं ब्रह्मणा विष्णुनापि च ।
न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम् ॥ १२॥
त्वया नीपारण्यनाथ त्वदन्यान्
समानाहुर्दैवतान् पापिनस्ते ।
तदा शम्भो त्वत्समं दैवतं स्याद्
यदा योगो वाजिनो रासभस्य ॥ १३॥
अणोरणुस्त्वं महतो महांस्त्वं
सर्वात्मभावात्परिपूर्ण एकः ।
त्वयैव शम्भो महिमा त्वदीयो
विज्ञायते वक्तुमिमं क्षमः कः ॥ १४॥
इति श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
श्रीहालास्यमाहात्म्ये पञ्चमाध्यायान्तर्गता
श्रीसोमसुन्दरस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसोमसुन्दरस्तुतिः
READ
श्रीसोमसुन्दरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
