श्रीपादाष्टकम् PDF संस्कृत
Download PDF of Sripada Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीपादाष्टकम् संस्कृत Lyrics
|| श्रीपादाष्टकम् ||
वेदान्तवेद्यं वरयोगिरुपं
जगत्प्रकाशं सुरलोकपूज्यम् ।
इष्टार्थसिद्धिं करुणाकरेशं
श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥
योगीशरुपं परमात्मवेषं
सदानुरागं सहकार्यरुपम् ।
वरप्रसादं विबुधैकसेव्यं
श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥
काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शङ्खम् ।
चक्रं गदाभूषित भूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥
भूलोकसारं भुवनैकनाथं
नाथादिनाथं नरलोकनाथम् ।
कृष्णावतारं करुणाकटाक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ४ ॥
लोकाभिरामं गुणभूषणाढ्यं
तेजो मुनिश्रेष्ठ मुनिं वरेण्यम् ।
समस्तदुःखानि भयानि शान्तं
श्रीपादराजं शरणं प्रपद्ये ॥ ५ ॥
कृष्णासुतीरे वसति प्रसिद्धं
श्रीपाद श्रीवल्लभ योगिमूर्तिम् ।
सर्वेजनैश्चिन्तितकल्पवृक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ६ ॥
मन्त्राब्धिराजं यतिराजपूज्यं
त्रैलोकनाथं जनसेव्यनाथम् ।
आनन्दचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ७ ॥
मन्त्रानुगम्यं महानिर्वितेजं
महत्प्रकाशं महाशान्तमूर्तिम् ।
त्रैलोक्यचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ८ ॥
श्रीपादाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतम्पापं स्मरणेन विनश्यति ॥ ९ ॥
इति श्रीपादाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपादाष्टकम्

READ
श्रीपादाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
