गणपति पंचक स्तोत्र
|| गणपति पंचक स्तोत्र || गणेशमजरामरं प्रखरतीक्ष्णदंष्ट्रं सुरं बृहत्तनुमनामयं विविधलोकराजं परम्। शिवस्य सुतसत्तमं विकटवक्रतुण्डं भृशं भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्। कुमारगुरुमन्नदं ननु कृपासुवर्षाम्बुदं विनायकमकल्मषं सुरजनाऽऽनताङ्घ्रिद्वयम्। सुरप्रमदकारणं बुधवरं च भीमं भृशं भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्। गणाधिपतिमव्ययं स्मितमुखं जयन्तं वरं विचित्रसुममालिनं जलधराभनादं प्रियम्। महोत्कटमभीप्रदं सुमुखमेकदन्तं भृशं भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्। जगत्त्रितयसम्मतं भुवनभूतपं सर्वदं सरोजकुसुमासनं विनतभक्तमुक्तिप्रदम्। विभावसुसमप्रभं विमलवक्रतुण्डं भृशं…