श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः PDF संस्कृत
Download PDF of Subrahmanyadvadashaksharamantrah Sanskrit
Misc ✦ Mantra (मंत्र संग्रह) ✦ संस्कृत
श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः संस्कृत Lyrics
|| श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः ||
अथ तत्त्वाचमनम्-
ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥
(प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।)
ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य
अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः ।
श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः ।
क्लीं कीलकम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे
जपे विनियोगः ।
ऋष्यादिन्यासः –
ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि ।
जगतीच्छान्दसे नमो मुखे ।
श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये ।
ह्रीं बीजाय नमो गुह्ये ।
ह्सौं शक्तये नमः स्तनयोः ।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥
(मूलेन करौ संशोध्य)
करन्यासः –
ॐ अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ऐं मध्यमाभ्यां नमः ।
क्लीं अनामिकाभ्यां नमः । ॐ कनिष्ठिकाभ्यां नमः ।
ह्सौं करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः –
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥
ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम्-
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलैश्शोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥
पञ्चोपचारपूजा –
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥
जपान्ते पुनर्हृदयाद्यङ्गन्यासाः ।
(At the end of Japa, once again Hrdayaadyanganyas as above)
ह्रीं भूर्भुवस्सुवरों इति दिग्विमोकः ।
(ध्यानम् । लमित्यादि पूजा । जपसमर्पणम् ।)
इति श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः
READ
श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
