सूर्यार्यास्तोत्रम् PDF संस्कृत
Download PDF of Suryarya Stotram Sanskrit
Surya Dev ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
सूर्यार्यास्तोत्रम् संस्कृत Lyrics
|| सूर्यार्यास्तोत्रम् ||
श्री गणेशाय नमः ॥
शुकतुण्डच्छवि-सवितुश्चण्डरुचेः
पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे
कुण्डलमाखण्डलाशायाः ॥ १॥
यस्योदयास्तसमये
सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेञ्जलिं त्रिनेत्रः स
जयति धाम्नां निधिः सूर्यः ॥ २॥
उदयाचलतिलकाय प्रणतोऽस्मि
विवस्वते ग्रहेशाय ।
अम्बरचूडामणये
दिग्वनिताकर्णपूराय ॥ ३॥
जयति जनानन्दकरः
करनिकरनिरस्ततिमिरसङ्घातः ।
लोकालोकालोकः
कमलारुणमण्डलः सूर्यः ॥ ४॥
प्रतिबोधितकमलवनः
कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो
रविः सदा जयति ॥ ५॥
अपनयतु सकलकलिकृतमलपटलं
सप्रतप्तकनकाभः ।
अरविन्दवृन्दविघटन-
पटुतरकिरणोत्करः सविता ॥ ६॥
उदयाद्रिचारुचामर
हरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर
गगनाङ्गनदीपक नमस्तेऽस्तु ॥ ७॥
उदितवति त्वयि विकसति
मुकुलीयति समस्तमस्तमितबिम्बे ।
न ह्यन्यस्मिन्दिनकर सकलं
कमलायते भुवनम् ॥ ८॥
जयति रविरुदयसमये
बालातपः कनकसन्निभो यस्य ।
कुसुमाञ्जलिरिव जलधौ
तरन्ति रथसप्तयः सप्त ॥ ९॥
आर्याः साम्बपुरे सप्त
आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि
न स लक्ष्म्या वियुज्यते ॥ १०॥
आर्याः सप्त सदा यस्तु
सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च दीपं च
पद्मा सत्यं न मुञ्चति ॥ ११॥
निधिरेश दरिद्राणां
रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां
गाथेयं संसृता रवेः ॥ १२॥
इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसूर्यार्यास्तोत्रम्

READ
सूर्यार्यास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
