सूर्यार्यास्तोत्रम् PDF

Download PDF of Suryarya Stotram Sanskrit

Surya DevStotram (स्तोत्र निधि)संस्कृत

|| सूर्यार्यास्तोत्रम् || श्री गणेशाय नमः ॥ शुकतुण्डच्छवि-सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५॥...

READ WITHOUT DOWNLOAD
सूर्यार्यास्तोत्रम्
Share This
Download this PDF