श्रीसूर्याष्टकम् PDF संस्कृत
Download PDF of Suryashtakam Sanskrit
Surya Dev ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीसूर्याष्टकम् संस्कृत Lyrics
|| श्रीसूर्याष्टकम् ||
॥ श्रीगणेशाय नमः ॥
जगन्नाथमेकं जगत्प्राणरूपं
जगत्कारणं सर्वदा रक्षकं च ।
जगत्स्वामिनं व्यापकं ह्येकमात्रं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ १॥
जगन्नायकं विश्ववन्द्यं वरेण्यं
जगत्स्वामिनं सूर्यमूर्तिं सुपूज्यम् ।
जगच्चक्षुरूपं प्रकाशं ह्यनन्तं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ २॥
सदा ह्येकचक्रं प्रभं देवदेवं
प्रदीपं महातेजरूपं च शुभ्रम् ।
सदैवं प्रभुं वेदवेदान्त वेद्यं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ३॥
सदा सच्चिदानन्दमेकं परेशं
सदा नेत्रयोः विद्यमान स्वरूपम् ।
सदा मण्डले ब्रह्मरूपं वरेण्यं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ४॥
निजं निर्गुणं तत्त्वमस्यादि लक्ष्यं
सदा निर्मलं सत्यमानन्दमेकम् ।
सदाऽद्यन्तशून्यं च तेजो ह्यखण्डं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ५॥
यं रूपकं वेदविदो स्मरन्ति
गच्छन्ति यन्मण्डलं तत्त्ववन्तः ।
गायन्ति यं रूपकं सामवेदाः
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ६॥
चतुर्बाहुकं कुण्डलं रत्न युक्तं
किरीटं तथा रक्तवस्त्रं च सौम्यम् ।
सदा वालखिल्यादिभिः स्तुत्यरूपं
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ७॥
जगत्सर्जको ब्रह्मरूपस्त्वमेव
जगत् पालको विष्णुरूपस्त्वमेव ।
जगन्नाशको रुद्ररूपस्त्वमेव
स्वयं ज्योतिरूपं च सूर्यं नमामि ॥ ८॥
समर्पयामि सूर्याय सूर्याष्टकमिदं स्तवम् ।
तव दर्शनमिच्छामि प्रसन्नो भव सर्वदा ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीसूर्याष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसूर्याष्टकम्
READ
श्रीसूर्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
