श्रीस्वामिनारायणध्यानस्तोत्रम् PDF संस्कृत
Download PDF of Svaminarayanadhyana Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीस्वामिनारायणध्यानस्तोत्रम् संस्कृत Lyrics
|| श्रीस्वामिनारायणध्यानस्तोत्रम् ||
आदौ प्रेमवतीवृषाङ्गजननं सन्नैकतीर्थाटनं
दुष्कर्मोपशमं च साधुशरणं सद्धर्मसंस्थापनम् ।
हिंसावर्जितभूरियज्ञकरणं मूर्तिप्रतिष्ठापनं
आर्यस्थापनमक्षराख्यगमनं सत्सङ्गिसज्जीवनम् ॥ १॥
श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं
तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा ।
ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै-
हरैः शेखरपङ्किभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ २॥
पातुं धर्ममधर्ममुत्खनयितुं श्रीभक्तिधर्माङ्गतो
जातायोत्तरकोशलेषु दयया सर्वेश्वरेशाय च ।
तृप्तिं वाक्यसुधारसैर्विदधते नैजैर्निजानां मुहु-
तस्मै श्री हरये नमोऽस्तु सहजानन्दाय सद्वर्णिने ॥ ३॥
स्नातं चन्दनचर्चितं निजजनैः पुष्पस्रजालङ्कृतं
प्रातः सूर्यमयूखसेवितमुखं श्रीचन्द्रशालोपरि ।
धृत्वा रोटकमेकपाणितलके भक्त्वान्यहस्तेन तं
नं प्रविलोक्य सेवकगणान् वन्दे सदा स्वामिनम् ॥ ४॥
स्त्रीपुंसैर्जयतल्पपत्तनबहिर्वाटीवटे वेष्टि
दो तूलपटोपबर्हणपटैर्जुष्टे चलन्मूर्तये ।
हस्ते कोमलकर्कटीफलयुगं धृत्वा विलोक्य स्वकान्
दन्तैश्चर्वणचातुरीं विदधते तस्मै नमः स्वामिने ॥ ५॥
श्रीजुष्टे वटपत्तने नृपपथे भूपस्य हर्म्याङ्गणे
नागेन्द्रो परिरूढमीडितपदं भूपेन भक्त्या भृशम् ।
नानारत्नमणीन्द्रमौक्तिकलतं हेमोद्भवं भूषणं
मूर्धाग्रे दधतं दधामि हृदि तं श्रीस्वामिनारायणम् ॥ ६॥
श्री धार्मिः पुरुषोत्तमो गुणनिधिर्यो ब्रह्मधामेश्वरो
मुक्तैर्जुष्टपदाम्बुजो वरतरैश्वर्यैरुपेतः प्रभुः ।
अन्तर्याम्यखिलात्मनां भवहरः सर्वेश्वराधीश्वर-
स्तं ध्यायाम्यवतारिणं मुनिपतिं श्रीस्वामिनारायणम् ॥ ७॥
धर्मस्त्याज्यो न कैश्चित्स्वनिगमविहितो वासुदेवे च भक्ति-
दिव्याकारे विधेया सितघनमहसि ब्रह्मणैक्यं निजस्य ।
निश्चित्यैवान्यवस्तुन्यणुमपि च रतिं सम्परित्यज्य सन्त-
स्तन्माहात्म्याय सेव्या इति वदति निजान् धार्मिको नीलकण्ठः ॥ ८॥
दृष्टाः स्पृष्टा नता वा कृतपरिचरणा भोजिताः पूजिता वा
सद्यः पुंसामघौघं बहुजनुजनितं घ्नन्ति ये वै समूलम् ।
प्रोक्ताः कृष्णेन ये वा निजहृदयसमा यत्पदे तीर्थजातं
तेषां मातः प्रसङ्गात् किमिह ननु सतां दुर्लभं स्यान्मुमुक्षोः ॥ ९॥
नारं सारं शुचिकनकबुट्टे परिदधन्-
निचोलं कौसुम्भं कटितटपटं चारुणरुचिम् ।
बहून् हारान् हैमान् वरवलयकेयूरमुकुटान्
हसद्वक्त्रेन्दुर्मे दृशि जयतु नारायणमुनिः ॥ १०॥
य ईशोऽपि स्वेच्छाधृतनृतनुरानन्दनिलयः
कृपासिन्धुर्बन्धुर्भवजलनिधौ दुःखितनृणाम् ।
सकामैर्निष्कामैरपि सुरनरैः सेव्यचरणं
नमाम्यात्मात्मानं तमहमिह नारायणमुनिम् ॥ ११॥
श्रीमद्ब्रह्मपुराधिपः श्रुतिशिरोभिर्गीयते योऽनिशं
नैकाण्डाधिपतिः क्षराक्षरपरः कारुण्यपाथोनिधिः ।
सर्वात्मा जगतां भवन्ति च यतो जन्मादयः सर्वत-
स्तं ध्यायामि हरिं सदा वृषभुवं श्रीस्वामिनारायणम् ॥ १२॥
यः पाञ्चाख्यपितुर्गृहे वृषपुरे देव्यां दयाशेवधिः
सर्वेशो भगवान् स्वयं सुदयया प्रादुर्बभूव प्रभुः ।
भूमावत्र समानयच्च परमां योऽनादिमुक्तस्थितिं
तं बापाशुभनामधेयमनिशं प्रेष्ठं मुदा चिन्तये ॥ १३॥
सङ्कल्पेन ननु स्वयं भगवतो भूमौ चचारात्र यो
यस्मै स्वीयभरं च धार्मिरखिलं प्रीत्या स्वयं दत्तवान् ।
ज्ञाता यश्च हरेः सदैव निखिलाभिप्रायकस्य स्वयं
वन्दे योगिवरं हि तं गुरुवरं गोपालबापाभिधम् ॥ १४॥
यं गोपालमुनीश्वरः स्वकपदे प्रीत्या समस्थापयद्
येनोपासनमत्र बोधितमतिश्रेष्ठं त्वपूर्वं हरेः ।
बापा श्रीमहिमापि येन परमः कौ बोधितः शर्मदो
वन्दे निर्गुणनामधेयमनिशं श्रीसद्गुरुं तं मुदा ॥ १५॥
यो गोपालमुनीन्द्रतुल्यमहिमा रेजे जगत्यामिह
पाश्रीः स्वमुखेन यं च निखिलाचार्योऽयमित्याह वै ।
बापा श्रीवचसां हि यः करुणया संलेखनं चाकरोद्
वन्दे श्रीश्वरसद्गुरुं गुरुवरं ह्यानन्ददं तं सदा ॥ १६॥
श्रीमद्ब्रह्मपुरेश्वराक्षरपरश्रीस्वामिनारायण-
सङ्कल्पेन भुवस्तले प्रकटितो बापास्वरूपश्च यः ।
सर्वाचार्यशिरोमणिर्गुणनिधिः श्रीस्वामिनारायण-
इति श्रीहरिस्वामिनारायणध्यानस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीस्वामिनारायणध्यानस्तोत्रम्
READ
श्रीस्वामिनारायणध्यानस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
