श्रीस्वामिनारायणस्तोत्रम् PDF संस्कृत
Download PDF of Svaminarayanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीस्वामिनारायणस्तोत्रम् संस्कृत Lyrics
|| श्रीस्वामिनारायणस्तोत्रम् ||
ऊर्ध्व तथाधो नहि यस्य मानं तस्मिन् महोधामनि राजमानम् ।
मुक्तव्रजानामधिराजमानं श्रीस्वामिनारायणमानमामि ॥ १॥
ब्रह्माण्डसन्दोहविभासिकान्तिं नैकात्मकल्याणनिगूढकान्तिम् ।
मनुष्यरूपार्पितदिव्यशान्तिं श्रीस्वामिनारायणमानमामि ॥ २॥
मनुष्यरूपं प्रतिमास्वरूपं तथाक्षरे धामनि दिव्यरूपम् ।
यस्यास्त्यभिन्नं कमनीयरूपं श्रीस्वामिनारायणमानमामि ॥ ३॥
दिव्याम्बराभूषणभूषिताङ्गं दिव्याद्वितीयाकृतिमञ्जुलाङ्गम् ।
दिव्यत्वसम्पादकसङ्गिसङ्गं श्रीस्वामिनारायणमानमामि ॥ ४॥
स्वस्वामिनारायणनाममन्त्रं स्वयं दिशन्तं भवपारयन्त्रम् ।
प्रौढप्रतापाश्रितलोकतन्त्रं श्रीस्वामिनारायणमानमामि ॥ ५॥
योगाद्विना कारितसत्समाधिं सद्भक्तसङ्घातविनाशिताधिम् ।
सम्प्रापयन्तं तमनाद्युपाधिं श्रीस्वामिनारायणमानमामि ॥ ६॥
सर्वावतारान् प्रविलापयन्तं सर्वावतारित्वमहो धरन्तम् ।
स्वराडिति स्वान् परिदर्शयन्तं श्रीस्वामिनारायणमानमामि ॥ ७॥
माये शब्रह्माक्षरसङ्घबीजं येऽनादिमुक्ता अपि तेषु बीजम् ।
तं सर्वदात्यन्तिकमुक्तिबीजं श्रीस्वामिनारायणमानमामि ॥ ८॥
प्रत्यक्ष एवास्मि सदेति भानं दत्वा स्वकेभ्यो निजमूर्तिदानम् ।
यावद्रवीन्दू प्रकटप्रमाणं श्रीस्वामिनारायणमानमामि ॥ ९॥
इति श्रीस्वामिनारायण गादी-आद्याचार्यप्रवर
श्रीमुक्तजीवनस्वामिबापाविरचितं श्रीस्वामिनारायणस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीस्वामिनारायणस्तोत्रम्
READ
श्रीस्वामिनारायणस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
