श्री स्वामिनाथषट्कम् PDF संस्कृत
Download PDF of Svaminath Ashatkam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री स्वामिनाथषट्कम् संस्कृत Lyrics
|| श्रीस्वामिनाथषट्कम् ||
हे स्वामिनाथार्तबन्धो ।
भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥
रुद्राक्षधारिन्नमस्ते रौद्ररोगं
हर त्वं पुरारेर्गुरोर्मे ।
राकेन्दुवक्त्रं भवन्तं माररूपं
कुमारं भजे कामपूरम् ॥
मां पाहि रोगादघोरात्
मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।
कालाच्च दुष्पाककूलात्
कालकालस्य सूनुं भजे क्रान्तसानुम् ॥
ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा
गिरौ यस्य सोपानभूताः ।
सैन्यं सुराश्चापि सर्वे
सामवेदादिगेयं भजे कार्तिकेयम् ॥
काषाय संवीतगात्रं कामरोगादि
संहारिभिक्षान्न पात्रम् ।
कारुण्यसम्पूर्णनेत्रं शक्तिहस्तं
पवित्रं भजे शम्भुपुत्रम् ॥
श्रीस्वामिशैले वसन्तं साधुसङ्घस्य
रोगान् सदा संहरन्तम् ।
ओङ्कारतत्त्वं वदन्तं शम्भुकर्णे
हसन्तं भजेऽहं शिशुं तम् ॥
स्तोत्रं कृतं चित्रचित्रं
दीक्षितानन्तरामेण सर्वार्थसिद्ध्यै ।
भक्त्या पठेत् यः प्रभाते
देवदेवप्रसादात् लभेताष्टसिद्धिम् ॥
इति श्रीस्वामिनाथषट्कं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री स्वामिनाथषट्कम्

READ
श्री स्वामिनाथषट्कम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
