श्री स्वामिन्यष्टकम् PDF संस्कृत
Download PDF of Svaminy Ashtakam Sanskrit
Shri Radha ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री स्वामिन्यष्टकम् संस्कृत Lyrics
|| श्रीस्वामिन्यष्टकम् ||
रहस्यं श्रीराधेत्यखिलनिगमानामिव धनं
निगूढं यद्वाणी जपत सततं जातु न परम् ।
प्रदोषे दृग्मोषे पुलिनगमनायातिमधुरं
बलत्तस्याश्चञ्चच्चरणयुगमास्तां मनसि मे ॥ १॥
अमन्दप्रेमार्द्रप्रियकरतलं कुङ्कुमपिष-
त्कुचद्वन्द्वे वक्षस्यपि च दधती चारु सततम् ।
कृपां कुर्याद्राधामयि रुचिरहेमाद्रिशिखरो-
दितप्रावृण्मेघस्मरहरहरी चूचुकमिषात् ॥ २॥
निमन्त्र्य प्रातर्या निजहृदयनाथं निरुपमा
सुकौमार्यैकाकिन्यतिघनवनादात्मभवने ।
वधियान्नं स्वादु स्वयमतिमुदा भोजयति सा
मयि प्रीता राधा भवतु हरिसङ्गार्पितमनाः ॥ ३॥
विधाय श्यामांसे निजभुजलतामिन्दुवदनं
कटाक्षैः पश्यन्ती कुवलयदलाक्षी मधुपतेः ।
मुदा गायन्ती या मथुरमुरलीजातनिनदा-
नुसारं तारं सा फलतु मम राधावदनयोः ॥ ४॥
अमन्दप्रेमार्द्रात्किसलयमयात्कोलशयना-
दुषस्युत्थायाब्जारुणतरकपोलातिरुचिरा ।
गृहं यान्ती श्रान्तिस्थगितगतिरास्याम्बुजगतं
घनीभूतं राधा रसमनुदिनं मे वितरतु ॥ ५॥
प्रियेणाक्ष्णा संसूचितनवनिकुञ्जेषु विविध-
प्रसूनैर्निर्मायातिशयरुचिरं केलिशयनम् ।
दिगत्येषा गुञ्जन्मधुपमुखरे धारपवनी-
श्रिते क्रीडन्ती मे निजचरणदास्यं वितरतु ॥ ६॥
कदम्बारूढं या निजपतिमजानन्त्यहनि त-
त्तले कुर्वन्ती स्वप्रियतमसखीभिः सह कथाम् ।
अकस्मादुद्वीक्ष्य स्फुटतरलहारोरसमिति
स्मितस्मेरव्रीडाऽऽननमुदिरदृक् सा मम गतिः ॥ ७॥
न मे भूयान्मोक्षो न पुनरमराधीशसदनं
न योगो न ज्ञानं न विषयसुखं दुःखकदनम् ।
त्वदुच्छिष्टं भोज्यं तव पदजलं पेयमपि त-
द्रजो मूर्ध्नि स्वामिन्यनुसवनमस्तु प्रतिभवम् ॥ ८॥
इति श्रीमद्गोपीजनचरणपङ्केरुहयुगा-
नुगत्याऽऽनन्दाम्भोनिधिविभृतवाक्कायमनसा ।
मयेदं प्रादुर्भावितमतिसुखं विठ्ठलपदा-
भिधेये मय्येव प्रतिफलतु सर्वत्र सततम् ॥ ९॥
इति श्रीविठ्ठलेश्वरविरचितं स्वामिन्यष्टकं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री स्वामिन्यष्टकम्

READ
श्री स्वामिन्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
