श्रीसमर्थाथर्वशीर्षम् PDF संस्कृत
Download PDF of Svamisamarth Atharvashirsham
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीसमर्थाथर्वशीर्षम् संस्कृत Lyrics
|| श्रीसमर्थाथर्वशीर्षम् ||
अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् ।
अथ ध्यानम् ।
ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं
स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् ।
दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं
भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १॥
। हरिः ॐ ।
नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे ।
नमः श्रीपाद श्रियावल्लभावतारधारिणे ।
नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे ।
नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे ।
नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ २॥
त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः ।
त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः ।
त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः ।
त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः ।
त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ ३॥
सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते ।
त्वामहं ध्यायामि नित्यम् ॥ ४॥
पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि ।
उत्तरस्यां पाहि । उर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥
भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर ।
शरणागतोऽस्मि त्वाम् ॥ ५॥
आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् ।
तुलसीबिल्वपुष्पादि गन्धद्रव्यैः सुपूजितम् ।
भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् ।
ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥ ६॥
“स्वामी समर्थ” इति महामन्त्रः । महाभय विनाशकः ।
नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति ।
स्वस्वरूपानुसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति ।
आत्मसाक्षात्कारो भवति ॥ ७॥
नमाम्यहं दिव्यरूपं जगदानन्ददायकम् ।
महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् ।
शक्तिं गणपतिं चैव सर्वदेवमयं भजेत् ।
कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥ ८॥
दत्तात्रेयाय विद्महे । परमहंसाय धीमहि । तन्नो स्वामी प्रचोदयात् ॥
ॐ शान्तिः शान्तिः शान्तिः ।
सुशान्तिर्भवतु ॥
अवधूतचिन्तन श्रीगुरूदेवदत्त स्वामीसमर्थार्पणमस्तु ।
सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॥
इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसमर्थाथर्वशीर्षम्
READ
श्रीसमर्थाथर्वशीर्षम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
