स्वप्रभुस्वरूपनिरूपणाष्टकम् PDF संस्कृत
Download PDF of Svaprabhusvarupanirupanashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
स्वप्रभुस्वरूपनिरूपणाष्टकम् संस्कृत Lyrics
|| स्वप्रभुस्वरूपनिरूपणाष्टकम् ||
स्वामिनीभावगौरस्य स्वस्वरूपं प्रपश्यतः ।
कटाक्षैर्विठ्ठलेशस्य श्यामताचित्रितं वपुः ॥ १॥
स्वास्मिन्नभयभावेन स्वेषामुभयरूपताम् ।
स्पष्टं बोधयितुं गौरश्यामः श्रीविठ्ठलेश्वरः ॥ २॥
निजाचार्योदितस्वीयमार्गसेव्यस्वरूपताम् ।
बोधयन्नभयात्माऽयं गौरश्यामो विराजते ॥ ३॥
रसस्य द्विविधस्यापि स्वरूपे बोधयन् स्थितिम् ।
ऐक्यं विरुद्धधर्मत्वाद्गौरश्यामः कृपानिधिः ॥ ४॥
स्त्रीभावभगवद्भावोभयात्मेति विबोधितुम् ।
स्वस्वरूपं हरिर्गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ५॥
भावात्मकत्वतो दृष्टिर्हासलीलाकृतिस्तथा ।
अतो विलोक्यते गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ६॥
निजानन्दप्रदानेन व्यवधाने दिवानिशम् ।
न करोति व्रजस्थानमिति श्रीमत्प्रभुस्तथा ॥ ७॥
सर्वात्मकामभावात्मस्वरूपं बोधयन्प्रभुः ।
श्रीविठ्ठलेश्वरोऽस्माकं गौरश्यामो विराजते ॥ ८॥
इति श्रीहरिदासोदितं स्वप्रभुस्वरूपनिरूयणाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowस्वप्रभुस्वरूपनिरूपणाष्टकम्
READ
स्वप्रभुस्वरूपनिरूपणाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
