तारावलिस्तुतिः PDF संस्कृत
Download PDF of Taravalistutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
तारावलिस्तुतिः संस्कृत Lyrics
|| तारावलिस्तुतिः ||
अज्ञानान्धतमो विमोहितधियां दुर्वादकोलाहलै-
रालीने सकले सनातनपथे कालेयलीलायितैः ।
क्षेमाय क्षितिमण्डले करुणया कृत्वाऽऽकृतिं प्राकृतीं
निर्धूताखिलदुर्मतो विजयते श्रीशङ्करश्शङ्करः ॥ १॥
पुण्यैर्भूतलसम्भ्रमैरुपनिषद्भाष्यादिवाग्गुम्भनैः
शिष्यैश्चाप्यफलीकृते स्वरचितत्र्यैलोक्यरक्षाक्रमे ।
जीयाच्छङ्करसद्गुरोः प्रियकृते जातावतारः पुनः
सोऽयं श्रीरमणो गुरुर्गुणगणैरध्यात्मनिष्ठो मुनिः ॥ २॥
रमणेशपदाम्भोज रजःकणमुपास्महे ।
यद्वासनापरिष्वङ्गाद्विगलन्ति कुवासनाः ॥ ३॥
आह्लादाऽऽवहमञ्जनं नयनयोरङ्गे सुधालेपनं
धैर्यं चेतसि खेदनामकगदप्रोत्सारकं भेषजम् ।
मध्याह्नार्क इव प्रसूतिजलधौ लोकप्रकाशोदयं
पुण्यैः श्रीरमणेश्वरं परिणतैर्धन्या लभन्ते नराः ॥ ४॥
शोणाद्रीशकुटीविहारसरसे दग्धाङ्गजातैधसे
कारुण्यादिगुणैकधाममनसेऽन्वर्थीकृतच्छन्दसे ।
सर्वापद्दुरितान्धसे भवभयप्रोद्धारकात्यौजसे
भक्तश्रेणिशिखादृताङ्घ्रिरजसे सेयन्नतिस्तेजसे ॥ ५॥
मोहातीतस्त्वमसि भगवन् ! मुग्धमूर्तिं दधानो
वेलालङ्घिव्यवहृतिरतो वद्धवन्नानटीषि ।
भक्तत्राणं भवजलनिधेरात्मनैव प्रणेतुं
पर्यङ्केऽस्मिन् वससि यदियं भाति ते कापि लीला ॥ ६॥
दूरीकर्तुं प्रभवति तवोपासनैव प्रजाना-
मेनोराशीनिति गुरुमणे! त्वत्समीपाश्रितानाम् ।
त्वद्भक्तानामपि बहुविधाभीष्टकामार्दितानां
भीतिं किं वा सृजसि भगवन् ! व्यर्थचिन्तानिदानम् ॥ ७॥
नानाशाखाविवृतमहिमा नाशिताशेषमोहः
मौनालम्बी प्रमुषितजटस्साधुसङ्घैरुपेतः ।
मञ्चस्थोऽयं रमणभगवान्दक्षिणामूर्तिरास्ते
प्रत्यासत्तेररुणमहसः प्राप्य सारूप्यलक्ष्मीम् ॥ ८॥
शान्तेरेकं सदनममृतासारशीतं प्रकृत्या
सौम्यं रूपं रमणभगवन् ! दर्शनीयं त्वदीयम् ।
वैराग्यात्ते तृणवदखिलत्यागकाले कराले
द्रष्टुं दृष्ट्या क इव चतुरस्त्वां त्वमेव क्षमोऽसि ॥ ९॥
साक्षात्कृत्याऽरुणधरणिभृद्वासिनं सद्गुरुं त्वां
द्रक्ष्यन्त्यन्यत्किमिव यमिनस्तावकीनोपदेशैः ।
ऐदम्पर्यं निगमशिरसां यत्र सच्चित्स्वरूपे
ब्रह्मैव त्वं तदसि भगवन्नित्यमुक्तस्वरूपम् ॥ १०॥
दारान् बन्धूनपि च तनयान् क्षेत्रवित्तानि गेहं
सन्तस्त्यक्त्वा सकलमपि ते पादपद्मं भजन्ते ।
किन्त्वेतांस्त्वं कपटवचनैर्भीषयन्नाथ ! नैवं
तत्वं ब्रूया न खलु भवतो वञ्चनां ते लभन्ताम् ॥ ११॥
शब्दाद्याख्यैर्विषयनिचयैर्व्यञ्चितं दृष्टनष्टं
सौख्यं दुःखोत्तरमपि मया बुद्ध्यते मोक्षतुल्यम् ।
भोगा एते रमण ! विरसा यस्य ते लेशलेशाः
सान्द्रानन्दस्फुरितजलधिं त्वां तमेवाश्रयामः ॥ १२॥
नाहं याचे रमणभगवन् ! लौकिकं भोगजातं
नापि स्वर्गं सुरपरिबृढाधिष्ठितं ब्रह्मलोकम् ।
याचेऽहं त्वां चरणपतितस्त्वत्पदाब्जैकसेवाऽऽ-
धीनामात्मप्रवणनिपुणां दृष्टिमान्तर्मुखीं ताम् ॥ १३॥
उर्व्यां स्वैरं कतिचन जना देवतानां नृपाणा-
मिभ्यानां वा स्तवनरचनैः कालजालं क्षिपन्तु ।
त्वत्पादाब्जाऽऽकलनजनितानन्दनिष्यन्दसिन्धो-
रन्तश्चारैर्वयमिह सदा कालमेते नयामः ॥ १४॥
गन्तव्या सा प्रभुनिवसती रञ्जनीयास्तदीया
भृत्यास्सेव्यः प्रभुरपि धनैस्सद्म मे पूरणीयम् ।
इत्थं चिन्तां चिरपरिचितां नाथ ! सन्त्यज्य सोऽहं
त्वन्निध्यानात् सफलजननस्स्यां कदा वा वद त्वम् ॥ १५॥
आढ्या दद्युर्वसु वसुमतीं हाटकं वा पटं वे-
त्येवं भ्रान्त्या धनिकसदनं त्वामुपेक्ष्याऽऽश्रयामः ।
लब्धं किन्नो रमण ! भवतोपेक्षया जायमानै-
रेनःकूटैः खलु कृपणता केवलं वर्द्धते नः ॥ १६॥
संविद्धीनस्सुरतरुगणः कामधेनुः पशुस्सा
ग्रावा चिन्तामणिरपि कवौ पक्षपाती च भोजः ।
कर्णो दुष्टाश्रयणकलुषः कालकाङ्क्षी पयोद-
स्त्वौदार्ये ते रमण ! तुलनां याति नान्यो वदान्यः ॥ १७॥
गेहो नाकः प्रणमति खलः पातकं पुण्यति द्रा-
ग्द्वेषी मित्रं विषयजसुखं मोक्षति क्ष्माधिपश्च ।
दासो मृत्युर्भिषजति महादूषणं भूषणं स्या-
द्यत्पादाब्जप्रपतनवशात्तं नमामो भवन्तम् ॥ १८॥
सर्वज्ञस्त्वं जडमतिरहं त्वं प्रभुस्त्वेष दीनः
दुःखागारः प्रतिपदमहं सौख्यपाथोनिधिस्त्वम् ।
सर्वं कर्तुं प्रभवति भवानल्पशक्तिः किलाऽहं
भिन्नावस्था किमिति जनिता मय्यभिन्ने त्वयैव ॥ १९॥
समीहासन्तानैर्हृदयमिदमाकृष्टमदयं
ततोऽन्यद्दैन्यं मे किमिव विपदस्सन्ति शतशः ।
अनाख्येया अन्या अलमलमये ! घूर्णनमिदं
भवोर्मिष्वेतासु प्रवितर गुरो ! चेतसि शमम् ॥ २०॥
त्वन्मूर्तौ मे रमणभगवन् ! मज्जतान्नेत्रयुग्मं
त्वद्ध्यानाध्वन्यपि परवशं स्वान्तमभ्येतु शान्तम् ।
त्वत्पूजार्थं वपुरपि सदा त्वत्स्तुतौ वाक् च भूयात्
इत्थं नोचेदहह ! भुवने स्वैरचारी हतस्स्याम् ॥ २१॥
वेदान्तास्ते कति कति लसन्त्येषु शाखास्त्वनन्ताः
तासामर्थप्रवचनपरं शास्त्रजालं त्वनन्तम् ।
तेषां वर्णग्रहण अपि वा नालमेकं पुमायुः
त्राता नस्त्वं यदि न गुरुराट् किं भवाब्धिं तरेम ॥ २२॥
नामं नामं रमणचरणद्वन्द्वमद्वन्द्वहेतुं
श्रावं श्रावं हृदयहितदास्सूक्तिधारास्तदीयाः ।
ध्यायं ध्यायं रमण भगवन् मूर्तिमव्याजभक्त्या
बोधं बोधं भवजलनिधिं दुस्तरं सन्तरामः ॥ २३॥
प्रसीद रमणप्रभो ! मम हृदि प्रभूतं भयं
निवारय दरिद्रतां दलय देहि बोधं स्वकम् ।
विधेहि करुणानिधे ! शिरसि मे तवाङ्घ्रिद्वयं
विदारय जरामृतिं वितर वाञ्छितं श्रीगुरो ! ॥ २४॥
दीर्घायुष्यं कथमिव जयन्तीदिने प्रार्थयामः
कर्मायत्तं भुवि जनिमता मायुराहुर्महान्तः ।
तान् मोहोत्थान् वशयति भवान् कालकर्मादिभावां-
स्तत्वज्ञानाद्गलिततमसः कालचिन्ता कथं ते ॥ २५॥
भान्वब्देऽस्मिन् सुपदयुजि ते जन्मवारे शुभंयौ
आढ्या भक्ता विलसितकरास्सूपहारैर्महार्घैः ।
सेवन्ते त्वां रमण ! कृतिनः पूज्यपादं कृतज्ञाः
क्षुद्रस्स्तोत्रं त्वदुपहृतये कल्पयंस्तात ! लज्जे ॥ २६॥
जय जय रमणेश ! दीनबन्धो !
जय जय जनतार्तिनाशहेतो ! ।
जय जय भगवन् ! प्रबोधमूर्ते !
जय जय दहनाचलैकलोल ! ॥ २७॥
जय जय करुणामयपुण्यमूर्ते !
जय जय विश्रुतलोकगीतकीर्ते ! ।
जय जय भक्तजनार्पितैकभुक्ते !
जय जय सुन्दरदम्पतीप्रसूते ! ॥ २८॥
तारावलिस्तुतिमिमां रमणेश्वरीयां
श्रुण्वन्ति ये भुवि पठन्ति च भक्तिभाजः ।
वित्तादि वैषयिकसुखेषु विरक्तिरेषां
संसक्तिरात्मनि भवेद्रमणप्रसादात् ॥ २९॥
इति तारावलीस्तोत्रं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowतारावलिस्तुतिः
READ
तारावलिस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
