तीक्ष्णदंष्ट्र कालभैरवाष्टकम् PDF संस्कृत
Download PDF of Teekshna Danshtra Kalabhairava Ashtakam Sanskrit
Bhairava ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
तीक्ष्णदंष्ट्र कालभैरवाष्टकम् संस्कृत Lyrics
|| तीक्ष्णदंष्ट्र कालभैरवाष्टकम् (Teekshna Danshtra Kalabhairava Ashtakam Sanskrit PDF) ||
यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं
सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चन्द्रबिम्बम् ।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 1 ॥
रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् ।
कं कं कं कालपाशं धृक धृक धृकितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 2॥
लं लं लं लं वदन्तं लललल ललितं दीर्घजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 3 ॥
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं
खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।
चं चं चं चलित्वाऽचल चल चलिताच्चालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 4 ॥
शं शं शं शङ्खहस्तं शशिकरधवलं मोक्ष सम्पूर्ण तेजं
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।
यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं
अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 5 ॥
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम् ।
हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं
वं वं वं वाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 6 ॥
सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं
पं पं पं पद्मनाभं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 7 ॥
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
नं नं नं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम् ।
टं टं टं टङ्कारनादं त्रिदशलटलटं कामगर्वापहारं
भुं भुं भुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 8 ॥
इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो
निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।
नश्येद्धि व्याघ्रसर्पौ हुतवह सलिले राज्यशंसस्य शून्यं
सर्वा नश्यन्ति दूरं विपद इति भृशं चिन्तनात्सर्वसिद्धिम् ॥ 9 ॥
भैरवस्याष्टकमिदं षाण्मासं यः पठेन्नरः
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ 10 ॥
सिन्दूरारुणगात्रं च सर्वजन्मविनिर्मितम् ।
मुकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ 11 ॥
नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥
इति तीक्ष्णदंष्ट्र कालभैरवाष्टकम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowतीक्ष्णदंष्ट्र कालभैरवाष्टकम्

READ
तीक्ष्णदंष्ट्र कालभैरवाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
