तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम् PDF संस्कृत
Download PDF of Tejovardhanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम् संस्कृत Lyrics
|| तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम् ||
श्रीगणेशाय नमः ॥
विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १॥
ईश्वर उवाच ।
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २॥
महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३॥
ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् ।
ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥ ४॥
श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः ।
मणिद्वीपं मदाकल्पमहाकल्पं महोदयम् ॥ ५॥
ह्रीतिमादधता धाम्ना धाम्नामीशकिशोरके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६॥
क्लीबस्यापि स्मरोन्मादकारिशृङ्गारशालिनः ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७॥
ग्लौं कलाभिरिवाञ्छामिस्तीव्रादिनवशक्तिभिः ।
सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८॥
गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ।
उत्सङ्गतललक्ष्मीकमुद्यतिग्मांशुपाटलम् ॥ ९॥
गदेक्षुकामुकरुजा चक्राम्बुजगुणोत्पले ।
व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिङ्गकैः ॥ १०॥
णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः ।
एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥ ११॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२॥
तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।
रमारमेशौ विमृशाम्येवशुभदायकौ ॥ १३॥
येन दक्षिणभागस्थन्यग्रोधतलमास्थितम् ।
सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४॥
वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ । १५॥
रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधराम्बुदाराभौ भजे भुवनपालकौ ॥ १६॥
वनमालावपुर्ज्योतिकडारितककुप्तटाः ।
हृदयादिरङ्गदेवि रङ्गरक्षाकृते नमः ॥ १७॥
रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८॥
दलत्कपोलविगलं मदधाराबलाहकम् ।
समृद्धितङिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९॥
सकान्तिकान्तितिलकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २०॥
वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥ २१॥
जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ ।
अहं मदद्रवाविघ्नौ हतये एनसां श्रये ॥ २२॥
नमः शृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३॥
मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधिवाक्यपुष्पाञ्जलिना स्तुमः ॥ २४॥
वर्षन्तौ रत्नवर्षेण बलद्वालातपस्विपौ ।
वरदानुमतौ वन्दे वसुधापद्मशेवधी ॥ २५॥
शमताधिमहाव्याधिसान्द्रानन्दकरम्बिताः ।
ब्राह्मम्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६॥
मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः ।
तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥ २७॥
नवीनपल्लच्छायादायादवपुरुज्वलम्
मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥ २८॥
यजमानतनुं यागरूपिणं यज्ञपुरुषम् ।
यमं यमवतामर्च्य यत्नभाजामदुर्लभम् ॥ २९॥
स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥ ३०॥
हारकेयूरमुकुटकिङ्किणीगदकुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१॥
मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२॥
इति तेजोवर्धनस्तोत्रम् अथवा मन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowतेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्
READ
तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
