श्रीटीकाकृत्पादाष्टकम् PDF संस्कृत
Download PDF of Tikakrritpadashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीटीकाकृत्पादाष्टकम् संस्कृत Lyrics
|| श्रीटीकाकृत्पादाष्टकम् ||
योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो-
भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः ।
टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ १॥
ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः
शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः ।
भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ २॥
किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो
दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे ।
भूतानागतवेदिनेति चतुरैः कैश्चिनिजैश्चोदितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ३॥
इत्येवं बहुधा वशीकृतमना गत्वा समीपं गुरो-
नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव ।
श्रीरामं सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ४॥
इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं
साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः ।
व्याजह्रे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ५॥
भोस्त्वं श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात्
तस्यैवेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा ।
आदिष्टो गुरुणा जयेति गदितस्त्र्यष्टादशग्रन्थकृत्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ६॥
तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराट्केकिनो
यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च ।
नानादुर्मतखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे
छिन्द्याच्छीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ७॥
विद्यारण्यजयं शृगालमठगः स्तम्भो यदीयः स्फुटं
वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः ।
वृष्टिग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहात्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ८॥
इत्येतद्गुरुजालबालरचितं भक्त्या पठनष्टकं
कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम् ।
नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यराट-
नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन् ॥ ९॥
अश्वत्थं च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन्
सद्यः पापविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः ।
यो वा दीनमना अनन्यशरणो भक्त्याऽलसो मादृशः
सिद्धिं याति ततोऽधिकां बुधजनः साक्षात् सुधा साक्षिणी ॥
इति गुर्जाला(बाळा)चार्यकृत श्रीटीकाकृत्पादाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीटीकाकृत्पादाष्टकम्
READ
श्रीटीकाकृत्पादाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
