श्रीटीलाचार्याष्टकम् PDF संस्कृत
Download PDF of Tilacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीटीलाचार्याष्टकम् संस्कृत Lyrics
|| श्रीटीलाचार्याष्टकम् ||
रामानन्दीयसिद्धान्तवारिधेर्वर्धकं विधुम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सिंहंवादिद्विपानां च विशिष्टाद्वैतवादिनम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
विजेतारं च सिद्धानां सिद्धेशं सिद्धिदायिनम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
श्रीमदानन्दभाष्याब्जभास्करं ब्रह्माचारिणम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
भक्तिशिक्षासुधावर्षिवारिदं मृत्युवारकम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
श्रीसाकेतनिवासाख्यं मुक्तिदं भक्तिदानतः ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
विनीतानां च शिष्याणां पश्चसंस्कारकारकम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
तारकादिरहस्यानां दानेन भवतारकम् ।
टीलाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीटीलाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीटीलाचार्याष्टकम्
READ
श्रीटीलाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
