तोटकस्तोत्रम् PDF संस्कृत
Download PDF of Totakastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
तोटकस्तोत्रम् संस्कृत Lyrics
|| तोटकस्तोत्रम् ||
श्रीजगद्गुरु शृङ्गेरी
श्रीचन्द्रशेखरभारतीस्वामि अनुगृहीता
स्मितनिर्जितकुन्दसुमं ह्यसमं
मुखधूतसुधांशुमदं शमदम् ।
सुखरूपपरात्मरतं निरतं
श्रितकल्पतरुं प्रणमामि गुरुम् ॥ १॥
जलबुद्बुदवत् क्षणभङ्गयुते
मलमूत्रवसासहिते वपुषि ।
कुरुतेऽभिमतिं हृदयं हि मुधा
लघु वारय देशिक तां दयया ॥ २॥
धृतदण्डकमण्डलुजापसरं
सततं हृदये शशिखण्डधरम् ।
दधतं नमतां वृजिनौघहरं
ददतं प्रतिभां प्रणमामि गुरुम् ॥ ३॥
करणानि समानि भवन्ति कदा
तरणं नु कथं भववारिनिधेः ।
शरणं मम नास्ति गुरो त्वदृते
निरुपाधिकृपाजलधेऽव जवात् ॥ ४॥
चरितं न मयेषदपीह शुभं
भरितं जठरं बहुधाऽघचयात् ।
छुरितं हृदयं नितरां तमसा
त्वरितं विमलं तनु तद्गुरुराट् ॥ ५॥
गलितेऽपघने पलितेऽपि शिर-
स्यलितं मम देशिक नैव हृदा ।
तव पादपयोजयुगे नु कदा
निरतं निरतं प्रलभेत मुदम् ॥ ६॥
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥ ७॥
करुणार्द्रविलोचन मोचय मां
भवबन्धनतो बहुधा व्यथितम् ।
क्वथितं प्रतिघादिकृशानुवशात्
करुणारससेचनतोऽव गुरो ॥ ७॥
शिव एव भवानिति मे धिषणा
ह्युदपद्यत देशिक चेन्न तथा ।
सकलं जगदप्यवबुध्यति ते
समतां सकलेष्वपि तत्तु कथम् ॥ ८॥
विषयेषु सदा रमते हृदयं
विषतुल्यधियं दिश तत्र गुरो ।
लषितत्वदपाङ्गझरी प्रसरत्व-
चिरान्मयि बन्धविनाशकरी ॥ ९॥
सदसन्मतिरेव न मेऽस्ति गुरो
विरतिं प्रति सा करणं गदिता ।
विरतिः क्व नु मे विषयाशहृदः
कथमाप्नुव एव विमुक्तिपथम् ॥ १०॥
ब्रुवते निगमा बहुवारमिदं
जगदभ्रतलादिसदृक्षमिति ।
मम तादृशधीः समुदेति कदा
वद देशिक मेऽङ्घ्रिजुषे कृपया ॥ ११॥
जननी जनकः सुतदारमुखाः
स्वहिताय लषन्ति सदा मनुजम् ।
गुरुरेव लषत्यखिलस्य हितं
तदहं तव पादयुगं श्रितवान् ॥ १२॥
मदमोहमुखान्तरशत्रुगृहं
दमशान्तिविरक्तिसुहृद्रहितम् ।
कथमेनमवेर्भवसागरतः
किमसाध्यमिदं वद देशिक ते ॥ १३॥
धुनुषेऽघचयं पदनन्तृनृणां
तनुषे भविकं सकृदीक्षणतः ।
जनुषे सदसच्च यथा न भवेन्
मम कर्म तथा कुरु देशिकराट् ॥ १४॥
समवाप्य सुदुर्लभविप्रजनु-
र्यतितामपि को नु जनो मदृते ।
व्यवहारवशत्वमुपैति गुरो
गतिरेव न मे तव पादमृते ॥ १५॥
उददीधर एव बहून्मनुजान्
कृपया भवसागरमध्यगतान् ।
किमयं तव भारती लोकगुरो
न हि भूभृदहेरणुरस्ति भरः ॥ १६॥
दमुना यमुनाजनकश्च विधु-
र्मिलिताः शतशोऽपि न शक्नुवते ।
यदपाकरणे तदचित्तिमिरं
त्वमपाकुरुषे वचसैव गुरो ॥ १७॥
गुरुशङ्करनिर्मितभाष्यसुधा
सरिदीशनिमज्जनतृप्तमिमम् ।
प्रविधाय गुरो भववारिनिधे-
र्लघु तारय मां करुणार्द्रदृशा ॥ १८॥
पदनम्रजनौघपुमर्थकरी
प्रबलाघसमुद्रनिमग्नतरी ।
मयि देशिक ते श्रुतिमूर्धचरी
प्रसरेन्नु कदा सुकटाक्षझरी ॥ १९॥
बहुजन्मशतार्जितपुण्यवशाद्
भवदीयदया समवापि मया ।
भवबन्धनतो न बिभेमि गुरो
करणीयमपीह न मेऽस्त्यपरम् ॥ २०॥
स्वरेवऽघगिरेर्भजतां दिविषत्
तरवे प्रतिभाजितगोगुरवे ।
पुरवैरिपदाब्जनिविष्टहृदे
करवै प्रणतिं जगतीगुरवे ॥ २१॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता तोटकस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowतोटकस्तोत्रम्
READ
तोटकस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
