श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम् PDF संस्कृत
Download PDF of Turajabhavanikavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम् संस्कृत Lyrics
|| श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम् ||
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्री शङ्कराय नमः ।
अथ ध्यानम् ।
श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।
महामेघ निनादातां निर्वाते दीपवत्स्थिताम् ॥ १॥
भुजाष्टकयुक्ता बाणां चापशूलगदाधराम् ।
खड्गशङ्खगदाचक्रवरदाभयधारिणीम् ॥ २॥
अथ तुरजा कवचम् ।
श्रीदेव्युवाच –
देवेश परमेशान भक्तानुग्रहकारक ।
तुरजाकवचं वक्ष्ये मम प्रीत्या महेश्वर ॥
श्री ईश्वरोवाच –
शृणु देवि महागुह्यमतिगुह्यतरं महत् ।
तुरजाकवचं वक्ष्ये न देयं कस्यचित् कदा ॥
ॐ अस्य श्रीतुरजाकवचमालामन्त्रस्य श्रीरामचन्द्र ऋषिः ।
श्रीतुरजा देवता । अनुष्टुप्छन्दः ।
श्रीतुरजाप्रसादसिद्ध्यर्थे जपे विनियोगः ।
श्रीशङ्कर उवाच –
तुरजा मे शिरः पातु भाले तु परमेश्वरी ।
नेत्रे नारायणी रक्षेत्कर्णमूले तु शाङ्करी ॥ १॥
मुखम्पातु महामाया कण्ठं भुवनसुन्दरी ।
बाहुद्वयं विश्वमाता हृदयं शिववल्लभा ॥ २॥
नाभिं कुण्डलिनी पातु जानुनी जाह्नवी तथा ।
पादयोः पापनाशीञ्च पादाग्रं सर्वतीर्थवत् ॥ ३॥
इन्द्रायणी पातु पूर्वे आग्नेय्यामग्निदेवता ।
दक्षिणे नारसिंही च नैरृत्यां खड्गधारिणी ॥ ४॥
पश्चिमे वारुणी पातु वायव्यां वायुरूपिणी ।
उदीच्या पाशहस्ता च ईशान्ये ईश्वरी तथा ॥ ५॥
ऊर्ध्वं ब्रह्मणि मे रक्षेदधास्या वैष्णवी तथा ।
एवं दशदिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी ॥ ६॥
इदं तु कथितं दिव्यं कवचं सर्वदेहिकम् ।
भूतग्रहहरं नित्यं ग्रहपीडा तथैव च ॥ ७॥
सर्वपापहरे देवि अन्ते सायुज्यं प्राप्नुयात् ।
यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ॥ ८॥
शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ९॥
दध्यात् कवचमित्युक्तं तत्पुण्यं शृणु पार्वति ।
अश्वमेधसहस्राणि कन्याकोटीशचानि च ॥ १०॥
गवां लक्षसहस्राणि तत्पुण्यं लभते नरः ।
अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ॥ ११॥
सर्वपापविशुद्धात्मा सर्वलोकसनातनम् ।
वने रणे महाघोरे भयवादे महाहवे ॥ १२॥
जपेत्कवच मा देवि सर्वविघ्नविनाशिनी ।
भौमवारे महापुण्ये पठेत्कवचमाहितः ॥ १३॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ।
किमत्र बहुनोक्तेन देवि सायुज्यं प्राप्नुयात् ॥ १४॥
इति श्रीस्कन्दपुराणे सहयाद्रिखण्डे तुरजामाहात्म्ये
ईश्वरपार्वतीसंवादे श्रीतुरजाकवचं सम्पूर्णम् ।
श्रीउमारामेश्वरार्पणमस्तु ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम्
READ
श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
